________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सू. ८ वयवसंबन्धि । तेषां तत्राप्रतिभासनात् । तदप्रतिभासने च तत्संबन्धिरूपस्याप्यप्रतिभासनात् व्याप्याप्रतिपत्तौ तद्व्यापकत्वस्याप्रतिपत्तेः । अथात्मास्पिरभागावयवव्यापित्वमवयविनो ग्रहीतुं समर्थ इत्युच्यते । तन्न । सत्तामात्रेण तस्य ग्राहकत्वानुपपत्तेः । अन्यथा स्वापमूर्छाद्य५ वस्थास्वपि तत्प्रतिपत्तिप्रसंगात् । किं तु दर्शनसहायस्तत्र दर्शनं नाव
यविनोऽवयवव्याप्तिग्राहक संभवतीति प्रतिपादितम् । अथार्वाग्भागदर्शने सत्त्युत्तरकालं परभागदर्शनानन्तरम्मरणसहकारीन्द्रियजनितं स एवायमिति । प्रत्यभिज्ञानमध्यक्षमवयविनः पूर्वापरावयवव्याप्तिग्राहकम्। तदयुक्तम् । प्रत्यभिज्ञाज्ञानस्यैव तद्विषयस्य प्रत्यक्षत्वानुपपत्तेः । अक्षानुसारि हि प्रत्यक्षम् । न चाक्षाणामाक्परभागभाव्यक्यवग्रहणाव्यापारः संभवति । व्यवहिते तेषां व्यापारासंभवात् । संभवे वाऽतिव्यवहितेऽपि व्यापारः स्यात् ।
तथा च---
पुरः शचीशस्य सुचारुचारिसंचारि शच्या प्रविरच्यमानम् । १५ महीस्थिता अप्यवलोकयेयुत्स्थं स्फुरत्कौतुकलोलचित्ताः ॥६४६।!
न च स्मरणसहायस्यापीन्द्रियस्याविषये व्यापारः संभवति । यद्यस्याविषयो न तत्र स्मरणसहायमपि प्रवर्तते, यथा परिमलस्मरणसहायमपि लोचनं गन्धादौ । अविषयश्च व्यवहितोऽक्षाणां परभागमान्यवयवसंबन्धित्वलक्षणोऽवयविनः स्वभाव इति न प्रत्यभिज्ञाप्रत्यक्षेणापि भिन्नैकाक्यविग्रहणमुपपद्यते । ननु भवतामपि कथमक्यविग्रहणम् । न हीदं नास्त्येव । नापि मध्यभागमान्यवयवावभासोऽस्तीति । उच्यते । नास्त्येवास्माकमाग्दृशां सर्वात्मनावयविप्रत्यक्षता । यदा यावन्तोऽवयवा गृह्यन्ते तदा तदात्मकस्यैवावयाविनः साक्षात्क
रणात् । कथं तर्हि घटोऽयमिति प्रतीतिरिति चेत् । कतिपयावयव२५ दर्शनेनापरेषामपि तेषां परामर्शात् । न तदप्रत्यक्षं स्यादिति चेत् ।
एवमेवैतत्परमार्थतः । सांव्यावहारिकत्वादम्मदादिप्रत्यक्षाणामतीन्द्रिय
"Aho Shrut Gyanam"