________________
परि. ५. ८ ]
चाक्षुपद्रव्याणामेव भिन्नदेशतयोपलम्भस्य प्रसञ्जितत्वात् । तप्तायःपिण्डेनानेकान्त इति चेत् । न । वह्निसंनिधाने तथाविधद्रव्यान्तरोत्पत्त्या तत्र भिन्नद्रव्यद्वयस्याभिन्नदेशोपलम्भासिद्धेः । अथ प्रकृतेऽपि भिन्नदेशत्वेनोपलम्भोऽस्त्येव । पटाद्यवयविनस्तन्त्वाद्यवयवेषु तेषां च पक्ष्मादि स्वावयवेषु स्थितानामुपलम्भादिति चेत् । तन्न । देशशब्देनान्तरिक्षस्य विवक्षितत्वात् । कथमन्यथा भवानेव वातातपाभ्यां व्यभिचारमुदचीचरत् । न हि तयोरेकत्र समवायिकारणे वृत्त्याऽभिन्नदेशत्वमस्ति । द्रव्यद्वयस्य समकालं समवायिकारणैक्यविरोधात् । किं च -- अवयविभिन्न एव गृह्यमाणः समस्तावयचग्रहणादृह्येतावयवमात्रग्रहणाद्वा । प्रथमे कल्पे मध्यापर विभागावयवानामग्रहणाग्रहणमेव तस्य स्यात् । द्वितीयेऽपि तन्त्वग्रमात्रोपलम्भेऽपि पटोपलम्भो भवेत् । अथ भूयोऽवयवेन्द्रियसंनिकर्षानुगृहीतेनावयवीन्द्रियसंनिकर्षेण तस्य ग्रहणम् । ननु कियन्तोऽमी अवयवा भूयांसोऽभिधीयेरन् । दशैकादशादिसंख्या लक्षिता । यावतां वाऽग्रहेऽवयविबुद्धिरुल्लसेत् । आद्यपक्षो न क्षमः । क्वचित्करचरणशिरोग्रीवाद्यवयव त्रयचतुष्टयग्रहणे - १५ प्यवयविबुद्धेरुत्पादाद्दशैकादशादितन्तुग्रहणेऽपि चानुत्पादात् I द्वितीये परस्पराश्रयः | अवयविबुद्धौ हि सिद्धायामवयव भूयस्त्वसिद्धिः । तत्सिद्धौ च तत्सिद्धिरिति । किं च कथं भूयोऽवयवग्रहणादवयविग्रहणमुपपादि । यतोऽर्वाग्भागभाव्यवयवग्राहिणा प्रत्यक्षेण परभागभाव्यवयवाग्रहणान्न तेन तव्याप्तिरवयविनो ग्रहीतुं शक्यते । व्याप्याग्रहणे तेन तद्व्यापकत्वस्यापि ग्रहीतुमशक्तेः । ग्रहणे वातिप्रसंगात् । न च परभागभाविव्यवहितावयवाप्रतिभासनेऽप्यव्यवहितोऽवयवी प्रतिभातीति वक्तुं शक्यम् । व्यवहितावयवाप्रतिभासने तद्रुतत्वेनावयविन: प्रतिभासितुमशक्यत्वात् । नापि परभागभाव्यवयवग्राहिणा प्रत्यक्षेणावग्भागमान्यवयवसंबन्धित्वं तस्य गृह्यते । तत्र हि तदवय २५ वानां प्रतिभासात्तत्संबन्ध्येवाक्यविरूपं प्रतिभासेत नार्वाग्भागभाव्यव
I
स्याद्वादरत्नाकरसहितः
" Aho Shrut Gyanam"
-
८७५
१०