________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ८ भिन्नार्थक्रियाकारित्वाद्वा कलशकुलिशवत् । एकवचनबहुवचनविषयत्वाद्वा नक्षत्रनक्षत्रेशवत् । विरुद्धधर्माध्यासितत्वाद्वा दहनतुहिनवत् । यदि चावयवी, अवयवेभ्यो भिन्नो न भवेत, तदा स्थूलप्रतिभासो न स्यात् । परमाशूनां सूक्ष्मत्वात् । न चान्यादृग्भूतः प्रतिभासोऽ५ न्यादृगर्थव्यवस्थापकः । अतिप्रसंगात् । न च स्थूलाभावे परमाणुरिति व्यपदेशोऽपि संभवी स्थलापेक्षत्वादणुत्वस्येति ।
प्रेमितितभिः प्राकट्यत वैशेषिकपक्षदीक्षितैरेषा । कृत्रिममौक्तिकमालेव हरति हृदयं किन्तु तज्ज्ञानाम् ।।६४५॥
तथा हि-यत्तावत् ' लोचनव्यापारसमनन्तरमेव' इत्यादि गदितम् । १. तन्न युक्तम् । न खलु तन्तुभ्यो भिन्न एव पटः कस्यापि कदापि
प्रतिभासते । त एव हि तथा परिणतिमुषेयिवांसः पटोऽयमिति प्रतीयन्ते । ननु यदि तन्तव एव तथाभूतास्तथा चकासति तर्हि प्रत्ये. कमपि तेषु तथा प्रतीतिः स्वान्न पुनरयं तन्तुरिति । तदसत् । प्रति
तन्तु तथा परिणतेरभावात् । सर्वेषामेव हि तेषां स तयारूपः परि१५ णामः कथं प्रत्येकं चकास्यात् । न चैकान्तेनाभिन्नभेव तेभ्यस्तथा
परिणाममाचक्ष्महे । यतोऽयं दोषः प्राप्तावसरः स्यात् । प्रत्यक्षेण भिन्नस्यैव तस्य प्रतिभासे चायं पट इमे तन्तब इति युगपदेव विभक्तानां चाक्षुषाणां तेषां चन्द्रनक्षत्राणामिव प्रतिभासो भवेत् । अथ विभक्तानामिति विभक्तत्वं किं विभक्तस्वभावत्वं विवक्षितं विभक्तदेशत्वं वा । आद्य चेत्तदास्त्येव विभक्तस्वभावानामवयवावयविनां प्रतिभास इति कः प्रसंगार्थः । द्वितीय त्वनैकान्तिकम् । ज्ञेयत्वादिधर्माणां भिन्नानामपि भिन्नदेशतया प्रतिभासामावादिति चेत् । तत्रोत्तरमेव पक्षमाचक्ष्महे । न च व्यभिचारो ज्ञेयत्वादीनामप्येकद्रव्यगतानां तद्
व्यतादात्म्येनावस्थितत्वादत्यन्तं भेदासिद्धेः । वातातपाभ्यां भिन्नाभ्या२५ मपि, अभिन्नदेशत्वेनोपलभ्यमानाभ्यां व्यभिचार इति चेत् । न ।
- १ छन्दोदृष्टयार्थदृष्टयायमशुद्ध इव भाति !
"Aho Shrut Gyanam"