________________
८६८
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सु. ८ सर्वथा भिन्नलक्षणतैवैषामिति चेत् । न । नायनेन तेजसा व्यभिचारात् । न घनभिव्यक्तभास्वररूपोष्णस्पर्श नायनं तेजोऽभिव्यक्तभासुररूपोष्णस्पर्शात्पावकाद्भिन्नलक्षणं भवतां प्रसिद्धम् । द्रव्यसंख्याव्याघातप्रसंगात् । एवं पृथिव्यादेरप्यभिव्यक्तानभिव्यक्तगन्धादियोगेऽपि ५ नान्योन्यमत्यन्तभिन्नलक्षणत्वम् । अथैतदभावे पृथिवीत्वादिप्रतिनियतजातिसम्बन्धस्तेषां कुतस्त्यः। एकान्तेन भिन्नलक्षणत्वाभावे हि यथा पृथिव्यां पृथिवीत्वाभिसंबन्धस्तथाप्तेजःप्रभञ्जनेप्वप्येव स्यात् । दृष्टः खल्वेकलक्षणवत्सु कम्बुग्रीवादिमत्सु संबन्ध एकस्पा घटत्वजातेरिति चेत् । तदप्यसंगतम् । अवान्तरजातियोगस्य सर्वथा लक्षणभेदाप्रसाधकत्वाद्वयक्तिभेदमेव ह्यसौ प्रसाधयति । अन्यथा क्षत्रियत्वाधवान्तरजातियोगादात्मनामप्येकान्तिकं न स्यादेकलक्षणत्वमिति । एवं च द्रव्याणां यः किल नवधात्वसिद्धयेऽभिदधे हेतुस्तत्र विशेष्यं कटाक्षितं ध्रुवमसिद्धतया ।
यच्च परमाणुरूपं सदकारणवत्त्वहेतुना नित्यम् । गदितं द्रव्यचतुर्णां तदप्यसिद्धतास्पदं नूनम् ॥ ६२९ ॥ .... .... .... .... .... .... अणूनां स्कन्धभेदस्य कारणस्य विनिश्चयात् ।। ६३०॥ भेदे हि व्यणुकादीनां जायन्ते परमाणवः ।
अणूनां संहतो यद्वजायन्ते छाणुकादयः ॥ ६३१ ॥ परः प्राह---
यत्र स्कन्धस्य भेदोऽस्ति तत्राथ परमाणवः । जायन्तां न च सर्वत्र स्कन्धभेदो विभाव्यते ॥ ६३२ ।। केषांचित्परमाणूनां स्वतन्त्राणामपि स्थितेः । सर्वदैव ततो नित्याः सिद्धाः केऽपीति कश्मलम् ॥ ६३३ ॥ तेषां स्वातन्त्र्यसंसिद्धौ काचिन्ना ....
.... ॥ ६३४ ॥
२५
"Aho Shrut Gyanam"