________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः नावस्थानमदुःस्थम् । इह तु सत्त्वसिद्धिरेव दुर्लभा तेषु तेषामिति चेत् । तदपवित्रम् । पयसि गन्धस्य तेजसि गन्धरसयोः समीरे गन्धरसरूपाणामनुमानतः सत्त्वसिद्धेः । तथा हि- पयो गन्धवत्, तेजो गन्धरसवत् , वायुर्गन्धरसरूपवान् स्पर्शवत्वात्पृथिवीवत् । नान कालात्ययापदिष्टत्वनिष्टकः स्पष्टः । अनुतस्वभावे वस्तुनि विधिप्रति- ५ बेधयोः प्रत्यक्षस्य मूकत्वात्तेन पक्षबाधानुपपत्तेः । अन्यथा शातकुम्भीयोष्णस्पर्शसाधनेऽपि कथं न तत्प्रसंगः । नाप्यागमेनात्र पक्षबाधा । 'स्पर्शरसगन्धवर्णवन्तः पुद्गलाः' इत्यागमस्य तत्सद्भावसाधकस्यैव सत्त्वात् । स्याद्वादागमस्य प्रमाणत्वमेव न विद्यत इति चेत् । निबद्धकक्षाः कणभक्षपक्षे हहो हताशा भवतां तदेतत् । सज्जक्रमारकेसरिणः किशोराइंष्ट्राङ्कुरोत्पाटनलम्पटत्वम् ।। ६२८ ॥
स्याद्वादागमो हि भगवानपास्तसमस्तकलङ्कपङ्कः प्रमाणतामास्पदीकरोत्येव । अस्तु वास्याप्रामाण्यं तथापि न कालात्ययापदिष्टतास्पर्शः, पयस्तेजोवायुषु गन्धादेः क्रमेणासत्त्वमातेनुषः कस्यचिदागमस्याभावात् । अस्मदागमोऽस्त्येवेति चेत् । तस्किमिदानी प्रतिवाद्या- १५ गमेनापि पक्षवाधा भवतु | ओमिति चेत् ।
हन्त हन्त हहहा तपस्विनी तर्हि सेयमुपशान्तिमायुषी । तर्ककर्कशवितर्कशालिनो जल्पकेलिकलनाकलाविदः ॥ ६२९ ।
प्रथममेव प्रतिवाद्यागमबाधामुत्प्रेक्षमाणेन वादिनानुमानस्यानुपन्यासात् । अथ युक्त्यनुगृहीतेनैव तेन तद्बाधा न तन्मात्रेण तर्हि २० युक्तिरेवोद्भाह्यता पक्षप्रतिक्षेपाय किमनेनान्तरालेऽन्धदर्पणतलावलोकनकल्पेनागमेन ! परं प्रति तस्याप्रामाण्यात् । युक्तिमुखोत्प्रेक्षणैकबद्धलक्ष्यत्वादस्य । इति जलादिष्वपि गन्धादिसिद्धेः सिद्धमनुभूतानां तेषां तत्रावस्थानम् । अथ पृथिव्यादीनां चतुर्णामपि पुद्गलपर्यायत्वेनाभिन्नलक्षणत्वे पृथिव्यामिव जलादिष्वपि तेषामुद्भूततैव भवेत् । अन्यथा तु २५
१ तत्त्वार्थ. ५:२३.
"Aho Shrut Gyanam"