________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ स. ८ तथाभूतान्यपीमानि समस्तान्यपि सर्वथा ।
व्यावृत्तलक्षणानीति को ब्रूयाद्भवतः परः ॥ ६२५ ॥ अपि च---- पृथ्वीपयःपावकमारुतानां द्रव्यप्रबन्धे पुरतश्चतुर्णाम् । आविभ्रता पौगलिकत्वमेकं कामं पृथग्लक्षणता कथं स्यात् ॥६२६।। न पुद्गलात्मत्वमसिद्धिबन्धकीसमृद्धसंबन्धसुदुर्धरं बुधाः । वसुन्धरादेरभिधातुमीशते यतोऽनुमानं निरवद्यमस्ति नः ॥६२७॥
तथा हि-पृथिव्यप्तेजोवायवः पुद्गलद्रव्यपर्यायाः, स्पर्शादिमत्त्वात् । ये तु न तत्पर्याया न ते स्पर्शादिमन्तो यथाकाशादयः । स्पर्शादि१० मन्तश्च पृथिव्यादयस्तस्मात्पुद्गलद्रव्यपर्याया इति । नन्वयं सचेतनाः
तस्वः, स्वापवत्त्वादितिवत्पक्षकदेशासिद्धो हेतुः प्रतिनियमेनैव स्पर्शादीनां पृथिव्यादिषु वृत्तेर्न पुनः साकल्येन । तथा हि-गन्धरसरूपस्पर्शाश्चत्वारोऽपि पृथिव्यामेव वर्तन्ते गैन्धवन्ध्यास्ते पाथसि ।
गन्धरसरहितास्तेजसि । गन्धरसरूपशून्याः समीर इति । १५ तदुक्तम्
'गन्धादयो नियोक्तव्याश्चत्वारः पृथिवीगुणाः ।
अप्तेजोमरुतामेकं पूर्व पूर्वमपोह्य तु ॥' इति । जलादिषु गन्धादीनामनुपलब्धेः सिद्धमस्य पक्षकदेशासिद्धत्वमिति चेत् । ननु किमियमनुपलब्धिः प्रत्यक्षमात्रनिवृत्तिर्विवक्षिता समस्तप्रमाणनिवृत्तिर्वा । न प्रथमा । यतोऽसौ सामान्येनाभावसाधनी स्यात् । योग्यस्यैव वा । नाद्यः पक्षः सूक्ष्मः । सूक्ष्माणामन्तरिक्षादृष्टादीनां चातीन्द्रियाणामभावापत्तेः । न द्वितीयः । तोयादिवर्तिनां तेषामनभिव्यक्तत्वेन योग्यत्वासिद्धेः । शातकुम्भानुद्भूतोष्णस्पर्शवत् ।
अथ यत्तेजोद्रव्यं, तदुष्णस्पर्शवत् । यथा ज्वलज्ज्वलनज्वालाजालम् , २५ तथा च काञ्चनम् । इत्यनुमानेन सत्त्वसिद्धेः । तत्र तस्यानुभूतत्वे
१ बन्धकी- व्यभिचारिणी। २ गन्धवन्ध्याः-गन्धरहिताः
"Aho Shrut Gyanam"