________________
परि. ५ सू. ८ स्थाद्वादरत्नाकरसाहितः रितया हि छायापुद्गलैः प्रतिबिम्बमारभ्यते । अतो महतो लघुत्वप्रतिपत्तिरविरुद्धा । अपि च यदि काचकृपाणादौ प्रतिहतास्ते व्यावृत्तबिम्बमेव प्रकाशयन्ति तदा तत्रायतश्याममुखप्रतीतिर्न स्यात् । एतेन यदुक्तं- ' कथमेतदवगम्यते ' इत्यादि तदपि तत्त्वतः प्रत्युक्तमवरान्तव्यम् । यदपि प्रभाचन्द्रः प्राह-प्रतिबिम्बोत्पत्तौ हि जलादिकमुपादानकारणं चन्द्रादिकं च निमित्तकारणं गगनतलावलम्बिनं चन्द्रं निमित्तीकृत्य जलादेस्तथा परिणामात् ' इति, तदस्यात्यन्तार्जवविज़म्भितम् । यथा हि तेजोऽभावमपेक्ष्य ते · पत्रादेश्छायापुद्गलाः पृथिव्यादावाश्रये छायारूपद्रव्यान्तरतया परिणमन्ते तथात्रापि यदि वदनादिबिम्बस्य छायापुद्गला दर्पणादिप्रसन्नद्रव्यसाम- १० प्रीमपेक्ष्य प्रतिबिम्वरूपतया परिणस्यन्ते तदा किं नाम सूर्ण स्यात् । अस्यापि छायाविशेषस्वभावत्वात् । तथा चागमः-- 'सामा उदिया छायाऽभासुरगया निसिम्मि कालाभा। स चेह भासुरगया सदेवन्ना मुणेयव्या । जे आदरिसस्संतो देहावयवा हवंति संकता । तेर्सि तत्थुवलद्वी पगासजोगा न इयरेसि' ॥ प्रकरणचतुर्दशशती- १५ कारोऽपि धर्मसारप्रकरणे प्राह-'न ह्यङ्गनावदनछायानुसंक्रमातिरेकेणादर्शके तत्प्रतिबिम्बसंभवः' इत्यादि ।
सिद्धमित्थं तम छाया प्रतिबिम्बमिति त्रयम् । द्रव्यान्तरं ततो हेतौ विशेषणमसिद्धिभृत् ॥ ६२२ ।। विशेषासिद्धताप्यत्र हेतौ हन्त कृतास्पदा । एकान्तेन विविक्तं यत्क्षित्यादेर्नास्ति लक्षणम् ॥६२३ ॥ क्षित्यादीनि हि सर्वाणि द्रव्याणि द्रव्यतात्मना ।
एकेन परिणामेन तादात्म्येनावतस्थिरे ।। ६२४ ॥ १ श्यामोदिता छायाऽभास्वरगता निशि कालामा । सा चेह भास्वरगता स्वदेहवर्णा ज्ञातव्या । ये आदर्शस्यान्तदेहावयवा भवन्ति संक्रान्ताः । तेषां तत्रोपलब्धिः प्रकाशयोगान्नेतरेषाम् ॥
२०
"Aho Shrut Gyanam"