________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५सू. ८.
पाथः परिच्छिन्दन्तु प्रत्यावृत्त्यास्तु वक्त्रम् | सूर्यादिविम्बस्य तु परिच्छेदः कथम् । चक्षुरनार्जवावस्थितत्वेन तस्य रश्मिप्रवृत्त्यविषयत्वात् । अथादृष्टवशाते तत्र तेनापि प्रकारेण प्रवर्तन्त इत्युपगम्यते तर्हि विनैव रश्मीन् व्यवहितमेव च चक्षुरदृष्टवशाद्वारिवस्त्रादिवस्तूनि ५ गृण्हातीति किं नाभ्युपगम्यते । अथात्र कारकत्वं बाधकमस्ति । तथा हि--यत्कारकं तत्संनिकृष्य कार्यकारि कुठारवत् । संनिकर्षश्चात्र रश्मिद्वारेणैवोपपद्यत इति चेत् । नन्वत्रापि रश्मित्वं बाधकमस्त्येव । तथा हि-ये रश्मयस्ते स्वाश्रयप्रगुणावस्थितपदार्थानेवाभिसर्पन्ति यथा प्रदीपादिरश्मयो, रश्मयश्च चक्षुषि त्वयोपगता इति । १० अथ दर्पण प्रतिघातपरावृत्तमार्तण्डीयरश्मिभिर्व्यभिचारिरश्मित्वं हेतुस्तेषां रश्मित्वेऽपि प्रभाकराप्रगुणावस्थितापवरकप्रविष्टपदार्थान्प्रति प्रसारित्वात् । तदपसर्पदर्पणतलोत्पन्नदिनकरप्रतिबिम्बरुपद्रव्यान्तररमीनामेव तथा प्रवर्तनात् । तत्र च व्यभिचाराभावात् । न चादित्यरश्मीनामेव तथा प्रवर्तने प्रमाणमस्ति । यदि चादर्शादिप्रतिहता १५ रश्मयः सुखं प्रकाशयन्ति तदा शिलातलादिप्रतिहता अपि ते तत्प्रकाशयेयुः । विशेषाभावात् । न चात्र स्वच्छतेोपयोगिनी, रश्मिप्रतिघातमात्रस्यैवात्रोपयोगात् । तच्चोभयत्राप्यविशिष्टम्, प्रत्युत शिलादिना घनद्रव्येणातिशायी प्रतिघातो विधीयते । अतस्तत्रातिशयवता तत्प्रतिभासेन भाव्यम् । कारणातिशयाद्धि कार्यातिशयो २० दृष्टो यथा पित्तधातूद्रेकातिशयाच्छङ्गादिषु पीतत्वावभासातिशयः । अस्मन्मते तु स्वच्छ एवादर्शादौ बिम्बसंनिधाने तद्गतच्छायापुद्गलसंक्रमात्प्रतिविम्वमुत्पद्यते । न पुनः शिलादौ तद्विपरीतेऽतस्तत्र तत्प्रतिभासाभावः । किं च, आदर्शादिना प्रतिहता रश्मयो यदि विम्बं प्रकाशयन्ति तदा महतो हस्त्यादेः स्वपरिणामानतिक्रमेणैव प्रतीति२५ प्रसंगालघुत्वप्रतीतिर्न स्यात् । न चैवम् । अतः प्रतिविम्बमेव तत्र तथाभूतमुत्पन्नं प्रतिभासत इत्यभ्युपगन्तव्यम् । आदर्शाद्याश्रयानुसा
દ્રષ્ટ
"Aho Shrut Gyanam"