________________
..
.
.
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः
.... व केऽपि केऽपि तु । पटादेर्भेदतस्तद्वद्भवेयुरणवोऽपि चेत् ॥ ६३५ ॥ नन्वनेन किमाख्यायि दूषणं साधनस्य नः । स्वातन्त्र्यमपि केषांचित्तेषां सिद्धिमियाद्यतः ॥ ६३६ ॥ न तावद्वयभिचारोऽस्ति तैरणुत्वस्य .... । ५ .... .... .... ॥ ६३७॥
यतस्त्वया । विभागात्परमाणूनामिष्टो न तु विपर्ययः ॥ ६३८ ।। ___ अथायमेव सिद्धान्तः पुरस्क्रियते । तथा हि-तत्रेय प्रक्रिया । प्रथममवयवेषु क्रिया, क्रियातो विभागो, विभागात्संयोगो विना.... १०
भेदस्य भाक्त्विादिति चेत् । मा भूत्तावत्स्कन्धभेदस्य तत्कारणता । तथापि नामी निष्कारणा एव । क्रियाया एव तत्कारणत्वात् । नन्वसौ विभागस्थैव कारणं नामीषामिति चेत् । तदशुभम् । विभागस्य तेभ्यः सर्वथा पृथग्भूतस्यासंभवात् । तदेव हि द्रव्यं क्रियया १५ परिणतं सद्विभक्तरूपतां प्रतिपद्यते । तथाभूतं च सत्परमाणव इति व्यपदिश्यते । यथा चायमीदृश उपादानोपादेयभावः सिद्धस्तथा प्रागुक्तम् । एवं च विभक्तरूपतया द्रव्यस्योत्पादासिद्धमणूनां तद्पाणां क्रिया कारणम् । नन्वेवं 'स्कन्धभेदादणवो जायन्ते ' इति प्रागुक्तं विरुध्यते । नैवम् । यदि क्रिया ततो विभाग इत्यादि. २० रप्रातीतिक्यपि प्रक्रिया समाश्रीयते तथापि नाणवो निष्कारणका भवितुमर्हन्तीत्येवमर्थत्वास्क्रियायाः कारणत्वसमर्थनस्य । यावता स्कन्धभेद एव तत्कारणं कुम्भादौ स्कन्धभेदे कपालकलापादिभवनस्यानुभवात् । न हि तत्रावयवक्रियादिस्त्वद्गदिता प्रक्रिया सूक्ष्ममणमीक्षमाणेनापि मांसचक्षुषा । उक्ष्यते । २५ वेगवन्मुद्गरसंपर्कसमनन्तरं कपालमालाया एवं विलोकनात् ।
"Aho Shrut Gyanam"