________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सु. ८ स्यापि परमाणोरत्यन्तनिबिडविडोजः प्रहरणादेरपि मध्ये प्रवेशसंभवात् । नापि द्वितीयः । बादरपरिणामापन्नस्यापि पावकस्यायःपिण्डान्तः प्रवेशदर्शनात् । अथ नायःपिण्डादौ विद्यमानस्यैव पावकस्यान्तः प्रवेशः । किं तु तत्संयोगात्, सति तद्विनाशे विरलीभूतेष्वयःपरमाणु५ विति चेत् । तदसत् । न खलु तदानीमुन्मीलितलोचनानि भालय
न्तोऽपि प्रतिकालं तत्प्रलयमुपलभामहे । अथानुपलभ्यमानोऽप्येष परिकल्प्यते, दर्पणादिष्वपि परिकरुप्यताम् । प्रतीतिबाधः पुनरुभयत्र । अथाग्निसंयोगस्य तेजोरूपायःपिण्डाक्यविसमुष्टम्भकपार्थिवावयविचिरोधित्वादुपष्टम्भकविनाशेऽयं पिण्डविनाशः संगतो न तु छायापुद्गलसद्धावे १० दर्पणस्य केनचिद्विरोधाभावादिति चेत् । नन्वमिसंयोगोऽयःपिण्डोपष्टम्भकविरोधीति कुतोऽवगतवानसि । पार्थिवे काष्ठादौ तथा दर्शनादिति चेत् । तर्हि पार्थिवे काष्ठादौ लोहलेख्यत्वं दृष्टमिति शतकोटावपि तन्निष्टंक्यताम् । अथ
तत्र प्रत्यक्षबाधः, किं नायमग्निसंयोगादयःपिण्डप्रलयोऽपि । १५ नापि तृतीयो भेदः। असिद्धत्वात् । न हि प्रतिबिम्बपुद्गलेषु
जलपुद्गलेष्विव काठिन्य संभवति। ततश्च यथा नितान्तकठोरचन्द्रकान्तशिलान्तर्जलं न विरुध्यते तथा दर्पणान्तः प्रतिबिम्बमपि । यदप्युक्तं ' कथं वा द्वयोः सावयवयोः समानदेशता संगच्छते ' इति
तदपि समानदेशप्रसारिसमीरातपाभ्यां व्यभिचारि । अथ सावयवयोरपि २० रूपिद्रव्ययोरेव समानदेशता नोपपन्ना समीरातपौ त्वरूपसरू
पाविति न दोषः । तर्हि रूपित्वे सति सावयवयोरिति विशेषणं करणीयम् । न च तदकारि । संप्रतिकरणेऽपि विशेष्यस्य वैयर्थ्यम् । समर्थविशेषणोपादानेनैव साध्यस्य सिद्धत्याद्विशेष्यस्य व्यवच्छेद्या
भावात् । तथा हि-यदि रूपिणां पार्थिवाप्यतैजसपरमाणूनां समान२५ देशता स्यात्तदा तद्व्यवच्छेदाय साक्ष्यवेत्यस्य साफल्यं स्यात् । न चैवं
सकलपरमाणूनां स्वस्वदेशत्वात् । अस्तु तर्हि रूपित्वमेव समानदेशत्वा
"Aho Shrut Gyanam"