________________
परि. ५ सू.८] स्याद्वादरत्नाकरसहितः तस्य परिणामगौरवयोरुत्कर्षों न स्यात् । कथं वा लघीयस्यपि दर्पणतले महीयसो महीध्रादेः प्रतिबिम्बस्योपलम्भः स्यात् । कथं चा सव्यदक्षिणपार्श्वयोर्चिपर्ययेण प्रतिबिम्बे प्रतीतिः । कथं वा बिम्बे चलत्यवश्यं तदपि चलेत्तिष्ठति च तिष्ठेत् । कथं वा बिम्बापाये तस्याप्यपायः स्यात् । अपाये वा कथं न पृथक्तदवयवोपलब्धिरित्या- ५ लूनशीर्णोऽयं प्रतिबिम्बस्य द्रव्यतावादः | तस्मादिदमिह रहस्यम् । यन्मुखादिबिम्बमेव तत्प्रतिभातीति । आह किमेतत् । मुखादिबिम्बमेव तत्प्रतिभात्यथ च पुरः स्थितमिति गृह्यते । उच्यते । दर्पणकृपाणोदकादिपतिता नयनरश्मयः प्रत्यावर्तन्ते प्रत्यावृत्त्य मुखेन संनिकृष्य च मुकुरादिषु मुखमित्युपलम्भयन्ति । तत्राभिमुखं मुखमेतदिति १० भ्रान्ता प्रतीतिः । मुखमित्येतावता तु सम्यगिति । कथमेतदवगभ्यते स्वच्छेषु दर्पणादिषु पतिता नयनरश्मयः प्रत्यावर्तन्त इति नबनरश्मयः, स्वच्छदर्पणादिषु पतिताः प्रत्यावर्तन्ते, तैजसत्वात् । आदित्यरश्मिवत्, इत्यतोऽनुमानात् । अथ कथमवगतमत्र मुखप्रतिभासो न भ्रान्त इति । अलकतिलकादिविपर्ययाभावात् । ये हि यत्र १५ यथा विन्यस्ता अलकतिलकादयस्ते तत्र तथैवोपलभ्यन्ते । ननु दर्पणाभिघातप्रत्यावृत्तनेत्ररश्मिसंबन्धाद्वक्त्रग्रहे मुकुरमुखयोः क्रमेण ग्रहणं स्यात् । नायं प्रसंगः संगतः । तथाग्रहणस्याभिप्रेतत्वात् । कथं तर्हि न लक्ष्यत इति चेत् । आशुभावादिति ब्रूमः । दर्पणपतिता हि नयनरश्मयः प्रथम मुकुरप्रत्ययमुत्पाद्य प्रत्यावृत्त्य मुखेन संनिकृष्य च २० मुखमुपलम्भयन्ति । तस्मान्मुकुरमुखयोरिन्द्रियसंनिकर्षस्याशुभावेनान्तरालस्याग्रहणाद्दर्पणविशेषणो मुखप्रत्ययो भवति दर्पणे मुखमिति । अत्राभिध्महे । यदवादि ' छायापुद्गलाः कथं कठिनमादर्शमण्डलं विभिद्यान्तः प्रविशेयुः' इति तत्र तस्य छायापुद्गलैविभेदाभाव: किमेषां मूर्तत्वाहादरपरिणामापन्नत्वात्कठिनत्वाद्वा। नाद्यः पक्षः । भूर्त- २५
१ बादरपरिमाणं-स्थूलपरिमाणम् । .
"Aho Shrut Gyanam"