________________
प्रमाणनयतत्वालो कालङ्कारः
[ पार: ५ स. ८
स्यैव छायात्वेनाभिधानार्थमिति चेत् । नन्वालोकापरामशब्दे नालोकाभांबोऽभिधीयते केवलभूतलादिर्वा : 1 आद्यपक्षेः 1 आद्यपक्षे वैशेषिकपक्षक्षोद एवास्य शिक्षा । द्वितीयपक्षे त्वभावमन्तरेण भूभागादेः कैवल्येऽभिधीयमानेऽतिप्रसक्ति: । आलोककलितेऽपि तस्मिन्कैवल्यव्यपदेशप्रसक्तेः । यदि चालोकापगमशब्देन केवलमूतलादिर्भण्यते तदालोकापगमविशिष्ट इत्यादिना केवलभूतलविशिष्टो यः काश्यपीप्रदे शादिरित्यसंबद्धमेवोक्तं भवेत् । एतेन यदाह शालिकस्तखालोकप्रकरणे - ' आलोकेऽपवारिते छायेतीभ्यते । अपगतालोकभूभागव्यतिरेकिणी न रूपान्तरवच्छाया दृश्यते । तेन मन्यामहे ऽपवारिता१० लोकभूभागादिकमेव छाया ' इति तदपि प्रत्याहतम् । यदपि । प्रत्यपादि ' द्रव्यान्तरत्वे तु तदपायेऽप्यालोकेन सहावस्थितायास्तस्याः प्रतीतिः स्यात् ' इति तदपि नोपपन्नम् । छत्रस्य संबन्धिन छायावो हि केचिदालोकाभावमपेक्ष्य प्रसारिणस्तथापरिणताञ्छायाद्द्रव्यतया स्वीक्रियन्ते । ततच्छत्रापायेऽप्यालोकेन सहावस्थानप्रसंजनमस१५ मञ्जसमेव । परिणामिकारणापाये कार्यस्यावस्थानविरोधात् । न खलु मृदादिप्रक्षये क्षणमपि नोपादेरवस्थितिरुपलब्धचरीति सिद्धा छाया द्रव्यान्तरम् ।
A
८५८
५
२०
1
-
"Aho Shrut Gyanam"
·
एवं प्रतिबिम्बमपि । छायाविशेषस्वभावत्वादस्य । ननु यदि प्रतिबिम्बस्य द्रव्यान्तरप्रतिबिम्बं द्रव्यान्तरं तर्हि वक्त्राद्विनिर्गता त्वसिद्धिः । छायापुद्गलाः कथं कठिनमादर्शमण्डली विभिद्यान्तः प्रविशेयुः । कथं वा द्वयोः सावयवयोः समानदेशता संगच्छेत । कथं वाश्रयस्यान्तः प्रविष्ठे प्रतिबिम्बद्रव्यान्तरे
१' यदा तु नियतदेशाधिकरणो भाषामभावस्तदा तद्देशसमारोपिते नलिन छायेत्यवगमः । अत एव दीर्घा -हस्वा महतो अरुपीयसी छायेत्यभिमानः तद्दृशव्यापिनः नीलिनः प्रतीतेः । अभावपक्षे च भावधर्माध्यारोपोऽपि दुरुपपाद:' इति न्या. के. पृ. ९ पं. २१. २ प्रकरणपत्रिकायां पृ. १४४. पं.१२. ३ घटादेरिति युक्तम् ।