________________
परि. सू. 4]
स्याद्वादरत्नाकरसहितः
छाया । तदित्थं छाया कृष्णगुणवती न भवति स्पर्शरहितत्वादित्यस्यायुक्तत्वात्सिद्धस्तत्र कृष्णगुणः । एवं संख्यापरिमाणपृथक्त्व संयोगविभागपरत्वापरत्ववेगवत्त्वान्यपि । तस्माद्गुणवत्त्वादपि सिद्धा छाया द्रव्यम् । अत्र प्राभाकरः प्राह --- ' नन्वस्तु छाया द्रव्यं तथाप्यगतालोककाश्यपी प्रदेशाद्यतिरेकिणी नासौ समस्ति ' इति । तद- ५ स्याभिनवोत्प्रेक्षापाण्डित्य कण्डूविडम्बनामात्रम् । यतो भूभागादेरेव छायात्वेन प्रतीतेरिदमभिधीयेत । भूभागाद्यतिरिक्तछाया सद्भावे प्रमाणाभावाद्वा । न तावदाद्यः पक्षः । असिद्धत्वात् । न ह्यत्र सामानाधिकरण्येन प्रतीतिरस्त्ययं भूभागादिच्छायेति । किंत्वस्मिन्निति वैयघिकरण्येन । अथ भ्रान्ता वैयधिकरण्येन प्रतीतिः । अभ्रान्ता तर्हि १० कीदृक् । सामानाधिकरण्येनेति चेत् । न तावदियमस्ति 1 सोऽयं हस्तगतप्रासत्यागेन पादाङ्गुकीर्लिलितीत्युपेक्ष्यः प्रेक्षाणाम् । इदं चात्र चित्रम् । यदयं प्राभाकरत्वेन गर्वितोऽपि प्रतीतिभ्रान्ततां भाषते । अथ नेयं भ्रान्तिः किंतु भूभागादिच्छाययोरभेदस्याख्यातिः, तिक्तशर्करामतीताविव माधुर्यस्य । नन्वस्त्वभेदस्याख्यातिस्तु कौतस्कु- १५ ती भूभागादौ छायेति । भूभागाद्यतिरिक्तछाया सद्भावे प्रमाणाभावादित्यप्यक्षमम् । प्रत्यक्षस्यैवालोकवद्भूभागाद्भिन्नायाञ्छायायाः । परिच्छेदकत्वात् । न चेदं तदाभासम् । आलोक परिच्छेदकस्यापि तस्य तदाभासतापत्तेर विशेषात् । अथ नालोकविलोकिप्रत्यक्षस्य तदाभासता । भास्वररूपस्य भूभागाद्यतिरिक्तस्य तास्यालोकस्य सद्भावात् । छाया तु नास्त्येव काचिदिति तद्राहि प्रत्यक्षं तदाभासमेव । नन्वस्या असत्त्वं कुतः सिद्धम् | भूभागादेरेव छायात्वेन प्रतीतेभूभागाद्यतिरिक्तछायासद्भावे प्रमाणाभावाद्वेति पूर्वोक्त विकल्पावर्तनेनानिवृत्तः पर्यनुयोगः । अपि च यदि भूभागादिरेव छाया तदापगतालोकेति किमर्थम् । आलोकापगमविशिष्टो यः काश्यपी प्रदेशादिस्त - २५.
१ काश्यपी पृथिवी ।
"Aho Shrut Gyanam"
८५७
२०