________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५ सू. ८
I
स्ख्यार्थबाधायामुपचारप्रवृत्तेः । न चेयमत्रास्ति | अथ छाया मधुरशीतला न भवति, अभक्ष्यापेयत्वात् पावकवदिति व्यापकानुपलब्धिर्बाधकमस्ति । तथा हि- मधुरस्य शीतस्पर्शवतश्च द्रव्यस्य शर्कराक्षीरादेर्व्यापकं भक्ष्यपेयत्वं तस्यात्रानुपलब्धिरिति । तदबन्धुरम् | मधुर५ शीतलद्रव्यस्य भक्ष्यपेयत्वेन व्याप्तेरप्रसिद्धेः । तथा हि- ज्योत्स्ना भवति मधुरं शीतलं च द्रव्यं न च भक्षयितुं पातुं वा शक्या । अथ नासौ मधुरशीतलेति नानया व्याप्तिव्याहृतिः । ननु कुतोऽस्य तदभावसिद्धिः । न तावदमुष्मादेवानुमानात् । अत्रास्याः पक्षकुक्षौ निक्षेपस्याकृतत्वात् । सांप्रतं तु नायं कर्तुं लभ्यते । अथ यदा पूर्वमेवैषा १० पक्षीकृता भवति तदा को दोषः । नन्वेतत्पक्षप्रस्ताव एवैकान्तनित्यत्वसिध्यर्थं पक्षान्तरे गीतनर्तनादी वा क्रियमाणे को दोषः । अत्यन्तमप्रस्तुत कारित्वमिति । एतदन्यत्रापि समानम् । समदृष्टिः पश्यतु भवान् । तथा हि- अस्मद्गदिते छायाया माधुर्यशैत्ये बाधितुं भवतोऽत्र समारम्भः । तत्किं ज्योत्स्त्रया । अथास्यास्तैजसत्वान्मधुर१५ रस्य शीतस्पर्शस्य वा न सद्भावः । तदसत् । तैजसत्वासिद्धेः । अथ ज्योत्स्ना तैजसी, रूपादिषु रूपस्यैवाभिव्यञ्जकत्वात्, प्रदीपवदित्यतस्तस्यास्तत्सिद्धिः । नैवम् । अत्र हेतोरञ्जनादिनानैकान्तिकत्वात् । पराकृतं चेदमनुमानं पूर्वमेवेति मुख्यार्थस्य बाधाया असंभवादनुपचरितमेवैतच्छाया मधुरशीतलेति । ननु यदि छाया शीतस्पर्शवती २० तदास्यत्वमस्याः स्यात् । अम्लस्यैव शीतस्पर्शदर्शनात् । नैतत्पवनेऽप्यस्मादभ्युपगमेन शीतस्पर्श संभवादन्यस्यैवेत्यवधारणसिद्धेः । त्वदभ्युपगमेनाप्यस्या नियतशुक्लरूपानधिकरणत्वादनाप्यत्वप्रसिद्धेः । सिद्धे चानाप्यत्वे शीतस्पर्शस्याप्युदकशीतस्पर्शविलक्षणस्यात्र सत्त्वमविरुद्धम् । यथानुष्णाशीतस्पर्शस्य पृथिव्यां सद्भावेऽप्यवान्तरविशेषवतस्तस्य -२५ समीरे । अन्यथास्यापि पृथिव्यामन्तर्भावप्रसंग: । तदेवं सिद्धा स्पर्शवत्येव
८५६
१ आप्यत्वं जलीयत्वम् ।
" Aho Shrut Gyanam".