________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः तम्मात्तु द्रव्यत्वमिति । नन्वेवमपि महत्तरे चक्रकसंकटे यूयं पतिताः । तथा हि- देशान्तरसंयोगाक्रियावत्त्वं क्रियावत्त्वाव्यत्वं द्रव्यत्वादेशान्तरसंयोगवत्त्वमिति । उत्स्वमायितमेतत् । देशान्तरप्राप्तेः प्रत्यक्षत एव छायायां प्रसिद्धस्वरूपत्वात् । यदि हि द्रव्यत्वसिध्या देशान्तरप्राप्तिः प्रसाध्येत तदा स्यात्तद्दषणम् । प्रत्यक्षेणेति सिद्धेन देशा- ५ः न्तरप्राप्तिमत्त्वेन सिद्धाक्रियावत्त्वात्सिद्धं छायाया द्रव्यत्वम् । गुणवत्त्वाच्च कुम्भवत्तम्याः सिध्यति । न चासिद्धं गुणवत्त्वं नीला छायेत्यादिप्रतीतेस्तस्या रू .... .... ... .... .... .... ..... .... णी प्रसारयन्तोऽपि प्रतिदिशं नास्याः कमपि स्पर्शमुपलभामहे । तत्कि. मालोकम्य तमुपलब्धवान्भवान् । अथातिप्रतीत एव मध्याहचा- १०. रिणां खल्वाटानामालोकस्योष्णः स्पर्शः । किं नातिप्रतीतः पथिकानां दिनकरकरनिकरनिरन्तरोपनिपातसंतापितवपुषामविरलंकिसलयकलापाभिरामसहकारमहीरुहमहीमतिमनोरथैरुपस्थितानां तच्छायायाः शीत. लम्पर्शः । अथ समीरलहरीसमुह्यमानजललवानुप्रवेशात्तद्गतशीतस्प
ध्यासेन तत्र शीतला छायेति प्रतिभासस्तर्हि प्रभञ्जनप्रेर्यमाणौग्नि- १५ कणानुप्रवेशात्तद्गतोष्णस्पर्शारोपेण प्रभाकरमरी चिनिचय उष्णम्पर्शप्रति. भास इत्यपि किं न स्यात् । अथ निर्वातेऽपि तथैव प्रतिभासात्तद्गत एवायं निश्चीयते तार्ह निरन्तरतरुनिकुरुम्बविडम्बिताम्बरमणिप्रतापे कापि प्रदेशे वातरहितेऽपि शीतस्य स्पर्शम्य प्रतिभासादसावपि छायागत एवेति निश्चयिताम्, अलं पक्षपातेन । २०. तथा चायुर्वेदवाक्यम् -- 'आतपः कटुको रूक्षः, छाया मधुरशीतला । कषायमधुरा ज्योत्स्ना , सर्वव्याधिहरं तमः । इति । यत्त्वत्र रसस्पर्शयोरौपचारिकत्वं प्रकटयन्नाह व्योमशिव:--'ये हि मधुरस्य शीतद्रव्यस्य गुणास्ते छायायाः सेवनाद्भवन्तीति तत्कार्यकर्तृत्वेन तथोक्ता' इति तदप्यपरिभाव्यभाषितम् । मु- २५.
१ और्वाग्निः - दावाग्निः । वडवानलः ।
"Aho Shrut Gyanam"