________________
८५४
प्रमाणनयतत्त्वालोकालङ्कारः
[परि.५ स. १८
नात्रेन्द्रियव्यापारस्यान्यथासिद्धिसंभावनापि । शकुनेस्तदानीमत्यन्तं लोचनागोचरत्वात् । अपि च सिद्धेऽभावस्वभावत्वे छायाया गतिक्रियाया असंभवात्तत्रेन्द्रियव्यापारस्यान्यथासिद्धताभिधानं साधीयस्तां
दध्यात् । तत्पुनरद्यापि दैवकटाक्षितमस्ति । किं च यदि छायायां ५ गतिरारोपितप्रसादोपनतेत्युच्यते तदा मस्तकन्यस्तघटायां घटचेटि
कायामटत्यां चेटिकागतिरेव घटे समारोपात्प्रतिभातीति घटोऽपि तदानीं निष्क्रिय एव स्यात् । अथ तस्यापि चलतो विलोकनान्न निष्क्रियत्वम् । एतच्छायायामपि समानमायुष्मानिक नावधारयति ।
नाप्यत्र गतिमत्त्वस्य व्योम्नीव नीलिम्नोऽनुमानं बाधकमस्यात्रासंभवात् । १. नन्वभावरूपतैव तम्या गतिमत्त्वबाधिका । नैवम् । इतरेतराश्रयपरा
हतत्वात् । अभावरूपतायां हि सिद्धायां तस्या गतिमत्त्वबाधसिद्धिः । सत्यां च तस्यामभावरूपतासिद्धिरिति । भवतु वात्रारोपिता गतिस्तथापि तस्या भावरूपता तत एवापतन्ती दुरपन्हवेत्यहो शरणहेतुरपि मरणहेतुस्ते । तथा हि-भावरूपा छाया, अध्यारोप्यमाणगतित्वात् । वृक्षवत् । यथैव हि जवनप्रभञ्जनप्रेर्यमाणयानपात्रारूढस्य पुंसस्तीरतरुषु भावरूपेष्वेव स्वगतकर्माध्यारोपो नाभावरूपेप्वेवं छायाया अपि भावरूपायाभेव गतिसमारोप उपपन्नो नेतरस्यामिति सुस्थितं तम्या गतिमत्त्वं देशाद्देशान्तरप्राप्तिमत्त्वानुमानेन । यत्पुनरनेनैवोच्यते
'यचेदं देशान्तरप्राप्तिमत्वं तत् किं देशान्तरेण संयोगः समवायो २० वा । न संयोगस्तस्यापि साध्यत्वात् । तथाहि-द्रव्यत्वसिद्धौ संयोगः सिध्यति । संयोगाच द्रव्यत्वमितीतरेतराश्रयत्वं स्यात् । अथ देशान्तरमाप्तिः समवायः सोऽप्यसिद्धः। न ह्येकत्र समवेतमन्यत्र समवैति । छाया त्वेकत्र संबद्धाप्युपलब्धा पुनर्देशान्तरेऽप्युपलभ्यते' इति ।
तदपि यत्किंचित् । यतोऽत्र छायाया देशान्तरेण प्राप्तिसंयोगोऽभिधीयते । २५ यत्र वास्येतरेतराश्रयोद्भावनं तदनुसंधानशून्यतावशात् । न हि देशान्तर
प्राप्तिमत्त्वाव्यत्वं प्रसाधयितुमुद्यताः स्मः । किंतु गतिमत्त्व
"Aho Shrut Gyanam"