________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः यास्यां द्रव्यान्तरत्वासंभवेऽपि विभ्रमवशात्तथा प्रतीतेरुपपत्तेः ' इति .. तत्र भवत एव विभ्रमो यदन्न विभ्रमवशादिति ब्रवीषि । यदि हि द्रव्यतायां बाधकं किमपि स्यात्तदा युक्ता द्रव्यतया तत्प्रतीतेर्विभ्रमरूपता । बाधकं च न तावत्प्रत्यक्षम् । तद्न्यान्तरतायामेव प्रत्यक्षस्य साक्षित्वात् । अनुमानमपि-अभावरूपा छाया, द्रव्यगुणकर्मातिरिक्त- ५ कार्यत्वादित्येव, अन्यद्वा । न तावदाद्यम् । पूर्वमेव पराहतत्वात् । नाप्यन्यदनुमानं बाधकमत्रेक्षामहे । साधकं तु तस्यां द्रव्यतायां विद्यत एवेदमनुमानम् । तथा हि-छाया द्रव्यम्, क्रियावत्त्वात् । कुम्भवत् । चक्षुर्व्यापारा छाया गच्छतीति प्रत्ययोदयात्तस्याः क्रियावत्वमध्यक्षसिद्धमेव । अनुमानावसेयमपि । तथा हि--गतिमती छाया, १० देशाद्देशान्तरप्राप्तिमत्त्वात् , मैत्रवदिति । यच्चान व्योमशिवेनोपादेशि-' तदेतदसत् । भासामभावरूपत्वाच्छायायाः । तथा हि-यत्र यत्र वारकद्रव्येण तेजसः संनिधिनिषिध्यते तत्र छायेति व्यवहारः। वारकद्रव्यगतां च क्रियामातपाभावे समारोप्य प्रतिपाद्यते छाया गच्छतीति । अन्यथा हि वारकद्रव्यक्रियापेक्षित्वं न स्यात्' इति सोऽयं १५ पोस्तुरङ्गवेगविनिर्जयमनोरथः। मुख्यार्थबाधायां हि सत्यामारोपःप्रतिष्ठा प्राप्नोति । न चात्र छायाया गतिमत्त्वे बाधकस्य कणमपि प्रेक्षामहे । न हि छायायां गतिमत्त्वस्य माणवके कृशानुत्वस्येव बाधकमध्यक्षम् । तम्य तद्राहकतयैव प्रवृत्तेः प्रतिपादितत्वात् । अथानन्यथासिद्धेन्द्रियव्यापाराधीनं प्रत्यक्ष प्रमाणम् । इह तु वारकद्रव्यगतगतिगोचर- २० प्रत्ययोत्पादकतयेन्द्रियच्यापारोऽन्यथासिद्धो न छायागतिज्ञानं प्रति हेतुत्वं भजत इति । तदभाजनं नीतेः । यतो यदा युगपच्छनं तच्छाया च लोचनगोचरतामनुसरतस्तदा तावत्संभाव्यते कथंचिदिन्द्रियव्यापारस्यान्यथासिद्धता । यदा तु मध्यन्दिने मध्येऽन्तरिक्षं परिभ्राम्यतः शकुने छाया गच्छन्ती पृथिव्यामवनतवक्त्रेण प्रमात्रा प्रेक्ष्यते तदा २५ तद्गतैव गतिरिन्द्रियव्यापारस्य गोचरः। शकुनिगतिस्त्वनुमानगम्यैवेति
"Aho Shrut Gyanam"