________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सु. ८ प्रतीतिप्रसंगात् । नाप्यत्यन्ताभावः । मालोकस्य स्वकारणकलापोपनिपातकाले समुत्पद्यमानत्वात् । यदि ह्यालोकस्यात्यन्ताभावस्तमः स्यात्तदास्य व्योमकुसुमसमत्वमिति निमसमेतस्त्रिभुवनमनाद्यनन्तेऽ
न्धतमसे । एवं च नाभावरूपं तमः प्रागभावाद्यस्वभावत्वाव्योमव५ दित्यमुनाप्यनुमानेन बाधितः पक्षः । तमो भावरूपम्, उत्पत्तिमत्त्वे सति, अनित्यत्वाद्धटवदित्यनुमानेनापि प्रकृतानुमानपक्षबाधा निरो. द्धुमशक्या । प्रागभावेन व्यभिचारनिरासार्थमुत्पत्तिमत्त्वे सतीति कृतम् । प्रध्वंसेनानैकान्तिकत्वं मा भूदित्यनित्यत्वादित्युपात्तः । यच्च शंकर
न्यायभूषणकारावाचक्षाते- 'यो हि भावो यावत्या सामग्र्या १. गृह्यते तदभावोऽपि तावत्यैवेत्यालोकग्रहणसामग्या गृह्यमाणं तम
स्तदभाव एव' इति तदपि न किंचित् । तमोग्रहणसामग्र्या गृह्यमाणस्यालोकस्यैव तदभावताप्रसंगेनानैकान्तिकत्वात् । घटपटयोर्वा समानग्रहणसामग्रीकतया परस्पराभावत्वप्रसंगः ।
तस्मात्पदार्थान्तररूपविवेकेन प्रतिभासमानामध्यक्षेऽन्धकारमालोक१५ विरोधि वस्त्वेव । विरोधित्वे तर्हि कदाचिदालोकमप्यन्धकारः परिभवे
दिति न प्रेर्यम् । प्रतिनियतस्वभावाक्रान्तत्वाद्भावानामन्यथानलस्तूलं यथा दहति तथाऽनलमपि तूलः कदाचिद्दहेदुभयोः परस्परं विरोधाविशेषात् । तन्नालोकस्तमः किंतु वस्त्वेवेति गृहाण 1 किमङ्ग कष्टसंकटे सुखिनमात्मानमावेशयसि । यमपि पूर्वमतारोचकितया कन्दलीकारः स्वकीयं मार्गमुत्पेक्षां चक्रे- 'रूपविशेषोऽयमत्यन्तं तेजोभावे सति सर्वतः समारोपितस्तम इति प्रतीयते' इति । सोऽपि कापथः । निशादावत्यन्ततेजोऽभावे सत्यारोपाधिकरणभूतलादिवस्तुमात्रस्याप्यनुपलब्ध्या रूपविशेषारोपानुपपत्तेः । उपलभ्यमान एव हि कम्बो पीततारोपः प्रतीत इति ।
यच्चातिदिष्टं — एवं छायापि ' इति तदप्येतेन तत्त्वतः प्रत्या२५ छायाया द्रव्यत्वसिद्धिः। दिष्टम् । यत्पुनरूचे 'आलोकाभावरूपत
१ न्यायकन्दल्या पृ. ९ पं. २३१
"Aho Shrut Gyanam"