________________
परि. ५ स. ८] स्याद्वादरलाकरसहितः प्रत्यक्षबाधितपक्षनिर्देशानन्तरप्रयुक्तत्वेन हेतोः कालात्ययापदिष्टता च । साध्यवैकल्यं चात्र पक्षे निदर्शनस्य कुम्भप्रध्वंसस्यापि केवलाभावरूपत्वानुपपत्तेः । मृद्रव्यमेव हि घटाख्यपूर्वपर्यायपरित्यागेन कपालाख्योत्तरपर्यायविशिष्टं घटप्रध्वंस इति निरणायि । तन्नाभावरूपमेव तम इति पक्षः पक्षपाताहः । अभावरूपमपीति पक्षे तु सिद्धसाध्यता । .५ कथंचिदालोकाभावात्मकतया तमोद्रव्यस्याभ्युपेतत्वात् । भावाभावोभयस्वभावात् । समस्तवस्तूनां साध्यसाधनयोरितरेतराश्रयतयाऽसिद्धत्वात् । असिद्धता च हेतोः । तथा हि-तमसो भावरूपतायां द्रव्यगुणकर्मातिरिक्तकार्यत्वं सिध्यति । सिद्धे चास्मिस्तस्याभावरूपताप्रसिद्धिरिति । अनुमानबाधितश्चात्र पक्षः । तथा हि-तमो भावरूपम्, १० घटाद्यावारकत्वात्काण्डपटवदिति । न चास्य घटाद्यावारकस्वमसिद्धम् । घटाद्यावारकं तमो विषयाभिमुखप्रवर्तमाननयनन्यापारनिरोधित्वात्तद्वदेवेत्यतस्तत्सिद्धेः । अपि चालोकस्य प्रागभावः प्रध्वंसाभाव इतरेतराभावोऽत्यन्ताभावो वा तमो भवेत् । न तावदेकस्यालोकस्य प्रागभावस्तमः प्रदीपालोकेनेव प्रभाकरालोकेनापि तस्य १५ निवर्त्यमानत्वात् । यस्य हि यः प्रागभावः स तेनैव निवर्त्यते यथा पटनागभावः पटेनैव । नाप्यनेकस्य, एकेन निवर्त्यमानत्वात्पटप्रागभाववदेव । न च वाच्यं प्रत्यालोकं स्वस्वनिवर्तनीयस्य तमसो भेदात्मदीपादिना निवर्तितेऽपि तमोविशेषे पूषादिनिवर्तनीयं तमोऽन्तरं तदा तदभावान्न निवर्तत इत्येकेन निवर्त्यमानत्वादिति हेतुर- २० सिद्ध इति । प्रदीपादिनिवर्तिततमसि प्रदेशे दिनकरादिनिवर्तनीयस्य तमोऽन्तरस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धेः संप्रतिपन्नवत् । यदि चेदं प्रागभावस्वभावं स्यात्तदा प्रदीपप्रभाप्रबन्धप्रव्वसेऽस्योत्पत्तिर्न स्यादनादित्वात्प्रागभावस्य । नाप्यालोकस्य प्रध्वंसाभावस्तमो निवर्त्यमानत्वात्तस्यैव प्रागभाववत् । नापीतरेतराभावः । तस्य प्रसृतेऽपि २५ प्रचण्डे मार्तण्डीये तेजसि सद्भावेन तमिस्रायामिव वासरेऽपि तमः
"Aho Shrut Gyanam"