________________
प्रमाणमयतत्वालोकालङ्कारः
[परि. ४ स...
तपत्रादिप्रतिबद्धं तेजो न संयुज्यते तत्र तत्र छाया प्रतीयते । प्रति-. बन्धकापाये तु स्वरूपेणालोकः समालोक्यत इत्यालोकाभाव एव छाया । द्रव्यान्तरत्वे तु तदपायेऽप्यालोकेन सहावस्थितायास्तम्याः प्रतीतिः स्यात् । अत्र ब्रूमः । अभावरूपं तम इत्यत्र किमभावरूपमेव तम इति साध्यं विवक्ष्यते किं वाभावरूपमपीति । पौरस्त्यपक्षे पक्षस्य प्रत्यक्षबाधा । यथैव हि स्तम्भोऽयं कुम्भोऽयमिति स्तम्भादयो भावा विधिमुखेन प्रत्यक्षेण प्रतीयन्ते । तथेदं तम इति तमोऽपि । केवलारूपतायां तु तस्य प्रतिषेधमुखेन प्रत्ययः प्रादुःप्यात् । किं च गृह्यमाणे भूतलादौ विशेष्ये तद्विशेषेण तयान्यप्रतिषेधमुखेनाभावो गृह्यते न स्वतन्त्रः । तमसि च गृह्यमाणे नान्यस्य ग्रहणमस्ति । न हि बहुलरजन्यां निबिडघटितकपाटतया तिमिरनिकरनिरन्तरापूरितोदरेऽपवरके कुड्यादिविशेष्यं मनागपि गृह्यते । न चालोकादर्शनमात्रमेवैतत् । बहिर्मुखतया तम इति कृष्णाकारप्रतिभासात् । ननु यदि तमस्तत्त्वतः कृष्णाकारं स्यात्तदावश्यं स्वप्रतिभास आलोकमपेक्षेत । कुवलयकोकिलतमालादिकृष्णवस्तूनां सकलानामालोकापेक्षप्रतिभासत्वात् । न चैवम् । अतो नैष तात्विकः कृष्णाकारप्रतिभास इति चेत् । तदपि परिफल्गु। उलकादीनामालोकमन्तरेणापि तत्प्रतिभासात् । अथास्मदादिप्रतिभासमपे. क्ष्यैतदुच्यते । तदपि न पेशलम् ! यतो यद्यपि कुवलयादिकमालोकमन्तरेगालोकयितुं न शक्यतेऽस्मदादिभिस्तथापि तिमिरमालोकमन्तरेणापि ग्रहीतुं शक्यत एव । विचित्ररूपत्वाद्भावानाम् । इतरथा पीतावदातादयोऽपि तपनीयमुक्ताफलप्रभृतयो नालोकनिरपेक्षवीक्षणा इति प्रदीपचन्द्रादयोऽपि प्रकाशान्तरमपेक्षेरन् । विचित्रास्तु पदार्थ
प्रकृतयः प्रमाणसमधिगता न पर्यनुयोगमर्हन्तीत्यभ्रान्तकृष्णाकारप्रति. २५ भासे केवलाभावरूपतायास्तमसो बाधनात्पक्षस्य प्रत्यक्षबाधा स्पष्टैच।
१ बहुल:-कृष्णपक्षः ।
"Aho Shrut Gyanam"