________________
परि. ५ सू. ८ ]
स्याद्वादरत्नाकरसहितः
संभवादित्यप्यसंगतम् । गगनवर्तिपदार्थगतिस्थितीनां तदसंभवात् । तर्हि नभः साधारणं निमित्तमासामस्तु । सर्वत्र तत्संभवात् । इत्यप्यपेशलम् । तस्यावगाहनिमित्तत्वप्रतिपादनात् । तस्यैकस्यैवानेककार्यनिमित्तत्तायामने कसर्वगतपदार्थपरिकल्पनानर्थक्यप्रसक्तिः । कालात्मादिकसामान्यसमवाय कार्यस्यापि यौगपद्यादिप्रत्ययस्य बुध्यादेरिमतः पूर्वेणे- ५ त्यादिप्रतीतेरन्वयज्ञानस्येहेदमिति संवेदनस्य च नभोनिमित्ततोपपत्तेस्तस्य सर्वत्र सर्वदा सद्भावात् । कार्यविशेषात्कालादिनिमित्तभेदव्यवस्थायां तत एव धर्मादिनिमित्तभेदव्यवस्थाप्यस्तु । विशेषाभावात् । एतेनादृष्टनिमित्तत्वमप्यासां प्रत्याख्यातम् । पुदलानामदृष्टासंभवाच्च । ये यदात्मोपभोग्याः पुद्गलास्तद्गतिस्थितयस्तदात्मादृष्टनिमित्ताश्चेत्तर्हि १० असाधारणं निमित्तमदृष्टं तासाम् । प्रतिनियतात्मादृष्टस्य प्रतिनियतद्रव्यगतिस्थितिहेतुत्वप्रसिद्धेः । न च तदनिष्टम् । भूम्यादिवत्तदसाधारणकारणस्यादृष्टस्यापीष्टत्वात् । साधारणं तु कारणं तासां धर्माधमवेवेति सिद्धः कार्यविशेषात्तयोः सद्भावः । एवं च वैशेषिक दुःस्थ एष द्रव्येष्वनाधिक्यमनोरथस्ते । धर्मेऽप्यधर्मेऽप्यथवा विपक्षे किं नाम कुर्वन्तु मनोरथौघाः ॥ ६२१ ॥ प्रौढप्रमाणप्रतिपन्नरूपं तमः प्रभृत्यस्ति तथा ततोऽन्यत् । ततोऽपि च त्वत्समुपात्तहेतौ विशेषणासिद्धिरसिध्यदस्मिन् ॥ ६२२ ॥
3
१५
ननु द्वेष कलुषितस्वान्तस्य तवायमुल्लापः । न हि तमो नाम द्रव्यान्तरमस्ति भासामभावस्य तमस्त्वात् । तथा च प्रयोगः | अभावरूपं २० तमो द्रव्यगुणकर्मातिरिक्त कार्यत्वात् । यदेवं तदेवम् । यथा कुम्भप्रध्वंसस्तथा चैतत्तस्मात्तथा । एवं छायापि । ननु यदि छायाया द्रव्यान्तरता नोपेयेत तदा तस्यां छत्रादेरर्थान्तरभूतायां भावरूपतया प्रतीतिर्न स्यात् । अस्ति चासौ । ततो बीजादङ्करवत्तस्मादसौ द्रव्यान्तरं सिद्धा । तदसंबद्धम् । आलोकाभावरूपतयास्यां द्रव्यान्तरत्वा- २५ संभवेऽपि विभ्रमवशात्तथा प्रतीतेरुपपत्तेः । तथा हि-येन येन प्रदेशेना
" Aho Shrut Gyanam"