________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ स. ८ गुणवत्त्वेऽपि क्रियया सह संभवात् । अथ विशेषणोभयेऽप्याधाराधेयभूतयोर्वस्तुनोर्यः समवायः स एव संबन्धो विवक्ष्यते । न तु परम्परैकार्थसमवायादिरपीत्युपपन्नमेवेदं द्वयमपीति चेत् । तीदमेव भवतु पर्याप्तं तृतीयेन ! अथैवमपि सत्तायां प्रसंगः । सत्ता हि क्रियागुणयोर्भावास्क्रियावती गुणवती न च सा द्रव्यमिति । तयवच्छेदार्थ समवायिकारणमिति । भवतु तहीदमेव किमपराभ्याम् । न हि द्रव्यादन्यत्समवायिकारणं किंचिदुपेयिवान् । यद्ध्यवच्छेदमिच्छेः । यत्तच्यते समवायिकारणमित्यस्मादेव स्वजात्यवधारणे परजातिव्यवच्छेदे
च सिद्धे क्रियावगुणवदिति वचनं सपक्षकदेशवृत्तिसपक्षव्यापकयोरन्व१० यिनोरवरोधार्थम् । कथं, द्रव्यं वायुः, क्रियावत्त्वाद्गुणवत्त्वात्, आ
काशवदिति । तत्र पूर्वसपक्षैकदेशवृत्तिरुत्तरः सपक्षव्यापकः । कथं द्रव्यत्वे साध्ये द्रव्यमानं सपक्षो न च सर्वद्रव्येषु क्रियावत्वं वर्तत इति सपक्षकदेशवृत्तिगुणवत्त्वं तु सर्वद्रव्यवृत्तित्वात्सपक्षव्यापकं भवतीति ।
त्वया सोऽयमुपक्रान्तः प्रकारः प्रपलायने । त्रपापात्रत्वमात्रेय स्वस्य स्वीकृत्य सर्वथा ॥ ६१८ ॥ क्षणोऽयं लक्षणस्यैव लक्षणानुगुणं ततः । लक्ष्यलक्षणदक्षस्य जल्पितुं तव युज्यते ॥ ६१९ ॥ सहान्वयौ सपक्षस्य व्याप्यव्यापकौ मतौ ।
द्रव्यसिद्धाविमौ हेतू केदमत्रोपयुज्यते ।। ६२० ॥ किं चोचे .... .... .... .... .... .... .... चेत्तदेतदन्यत्रापि समानम् । न हि सकलार्थगतिस्थितयोऽपि सकृद्धाविन्यो धर्माधर्मलक्षणसाधारणनिमित्तमन्तरेणोपपद्यन्ते । शंकर
एवासां साधारणं निमित्तमस्त्वित्यष्ययुक्तम् । तस्य पूर्व निरस्तत्वात् । २५ तर्हि वसुधैव साधारणं निमित्तमस्तु । तत्र सकलार्थगतिस्थितीनां
१ छन्दोमङ्गो दृश्यते । व्याप्यध्यापकसमताविति स्यात् ।
"Aho Shrut Gyanam"