________________
परि. सू. ८.] स्याद्वादरत्नाकरसहितः संबद्धं हि वस्तु क्रियावदित्युच्यते । न च द्रव्यादन्यक्रियावदस्ति ययवछेदाय शेषविशेषणं क्रियते । यत्पुनरात्रेयः प्रोचिवान्'न क्रियात्वे प्रसंगात् । क्रियात्वमपि क्रियावद्भवति क्रियाधारत्वात् । न च तत् द्रव्यमिति तद्व्यवच्छेदार्थ गुणवदिति । न च खल्वाधार एवाधेयेन तद्वान्भवत्याधेयमप्याधारण तत् ५ व्यपदिश्यते' इत्यादि । तत्राय वर्षीयान्विप्रपुङ्गवोऽनन्तरमेव स्वयमुक्तं नाप्यनुसंदधातीति किं ब्रूमः । कर्म उत्क्षेपणादि तद्यस्मिन्समवायेन वर्तते तक्रियावदिति हि तत्रादावनेन विवत्रे । न च क्रियाल्वे क्रिया समवायेन वर्तते विपर्ययसद्भावात् । अथ क्रियावदिति क्रियासंबद्धतामात्रमुच्यते । तच्च क्रियात्वेऽप्यस्तीति युक्तं तव्यवछित्तये १० गुणवत्त्वविशेषण मिति चेत् । न । एवमपि तद्व्यवच्छेदासिद्धेः । गुणैरपि क्रियात्वस्य संबद्धत्वाद्गुणवत्त्वोपपत्तेः । कोऽत्र संबन्ध इति चेत् । सर्वत्र शिंशपात्वं वृक्षत्ववदित्यादौ वृक्षत्वस्य शिंशपात्वसंबद्धत्वेनाभिधीयमानस्य क इति वाच्यम् । एकार्थसमवाय इति चेत् । अत्रापि परम्परैकार्थसमवाय इति प्रतीहि । एकत्रैव द्रव्ये साक्षा- १५ दुणानां क्रियासमवायद्वारेण तु क्रियात्वस्य च वृत्तेः । गम्यगमकभावः शिंशपात्ववृक्षत्वयोः संबन्ध इति चेदत्रापि स एवास्तु । गुणबत्त्वाविनाभावित्वेन क्रियावत्त्वस्य गमकत्वात् । इतरस्य तु गम्यत्वात् । अथास्तु यत्र समवायेन क्रिया वर्तते । तदेव क्रियावत् । तथापीदमव्यापकं व्यापकद्रव्येषु क्रियावत्त्वासंभवात्, इति तत्संग्रहार्थमुक्तं गुण- २० चदिति । तहदिमेवास्तु कृतमितरेण । अथैवं गुणत्वेऽपि प्रसंगः । गुणत्वमपि हि गुणवद्भवति । गुणाधारत्वात् । न च तव्यमिति तयवच्छेदार्थ क्रियावदिति । तदपि न सुसूत्रमात्रेयेणाभाणि । गुणा रूपादयस्ते यस्मिन्समवायेन वर्तन्ते तद्गुणवदित्यादौ स्वयमेव व्याख्यानात् । गुणसंबद्धतामात्रे तु गुणवत्त्वे व्याक्रियमाणे क्रिया- २५ चत्त्वविशेषणोपादानेऽपि न गुणत्वव्यवच्छेदः । प्रागुक्तसंबन्धमात्रस्य
"Aho Shrut Gyanam"