________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सू. ८ स्यासंभवात् । व्योमादौ तु क्रियावत्त्वस्य सर्वथैवाभावाच्च । यथासंभवमिति पक्षोऽपि सद्यः समुत्पन्नपटादिष्वस्याभावादेव परास्त - इति न द्रव्यत्वस्याभिव्यञ्जकं किंचिदस्ति । भवदुक्तौ च सामान्यसमवायौ पुरः पराकरिष्येते इत्यतोऽपि स्वरूपासिद्धं द्रव्यत्वाभिसंबन्धरूपं ५ साधनम् । किं च, अस्य केवलव्यतिरेकिणो हेतोः केवलव्यतिरे
कित्वमेव गमकत्वे कारणमन्ताप्तिर्द्वयमपि वा प्रोच्यते । नायः पक्षः । सर्वं, सात्मकम्, सत्त्वात् । यन्नैवं न तदेवम् । यथा गगनेन्दीचरम् । इत्यादेरपि गमकत्वप्रसक्तेः । अथात्र पक्षस्यैकत्र देशे सिद्ध
साधनम् । अन्यत्र पुनरनुमानबाधा । कुम्भस्तम्भाम्भोरुहादौ तथा१० विधपरिस्पन्दप्राणादेरात्मकार्यस्य व्यापकस्य योग्यस्याप्यनुपलब्धेः । न
च न कार्य कचन व्यापकं भवति । कार्यमन्तरेणापि कारणसद्भावात् । न ह्यवश्यं कारणानि कार्यवन्ति भवन्तीति वक्तव्यम् । लैङ्गिकवेद्यस्य वस्तुनो योग्यलिङ्गोपलम्भस्यैव व्यापकत्वात्तदनुपलम्भेनैव च तस्या
सत्त्वावधारणात् । यथा स्तनजघनजवाजानुपादादेिप्रतीकेषु गन्धानु१५ पलम्भेन प्राणादेरिति चेत् । एवमेतत् । इह न कोऽपि प्रतीपवाक्कोऽपि
कोविदः समम्ति सर्वथा । किंतु केवलविपक्षानास्तितानिश्चितं न गमकत्वकारणम् । यत एव हि तत्र साध्यं वाच्यतेऽत एव न केवलव्यतिरेकित्वं गमकत्वे कारणम् । यदि तु स्यात्तदा बलात्साध्यमर्प
येत् । अथान्तप्तिरत्र गमिकेप्यते । नन्वसाविह नास्त्येव, विपक्षे २० बाधकप्रमाणाभावात् । द्रव्यस्यापि गुणाद्यात्मकत्वप्रसंगो विपक्षे बाधकमस्तीति चेत् । नैवम् । इष्टत्वाद्गुणपर्यायात्मकत्वाव्यस्य । यथा चैतदेवं तथा प्रत्यतिष्ठिपाम प्राक् । एतेन द्वयपक्षोऽपि व्यपास्तः । ततो नेदमनुमानमुदात्तम् । एवं व्यवहारानुमाने पृथिवीत्वा
भिसंबन्धात्पृथिवीत्वाद्यनुमानेऽपि दूपर्ण भाषणीयम् । ततो न द्रव्य२५ स्वाभिसंबन्धो द्रव्यलक्षणमक्षुण्णम् । नापि क्रियावदित्यादि । क्रिया.
१ भङ्गं प्रतीकोऽवयव ' इत्यमरः ।
"Aho Shrut Gyanam"