________________
परि. ५ सू. ८]
स्याद्वादरत्नाकरसहितः
भावसाधनायेति चेत् । नैवं करम्बितकनकपारदाभ्यामनैकान्तिकत्वात् । एतेन प्रतिबिम्बरूपद्रव्यान्तरप्रवेशे परिणामगौरवयोरुत्कर्षभावस्य व्यभिचारित्वमभिहितम् । न च वाच्यं काञ्चनस्य तदानीमभावादेव नास्ति तदन्तःप्रवेश इति । तथाविधौषधसंपर्केण तत्परिणामस्य तद्वर्णिकाकान्तस्य च तस्य तम्माद्विविक्तस्य पुनर्दर्शनात् । न चान्यदेव तत्तदानीमु- ५ त्पन्नम् । तत्र प्रमाणाभावात् । तद्रूपतायां तु तस्य तत्परिमाणता तद्वर्णिकाकान्तता च प्रमाणं प्रोक्तमेव । यदपि कथं वा लघीयस्यपि दर्पणतले' इत्याद्यवादि तत्रापि प्रदीपतले कुनलस्य. सकलापवरकोदरपूरणप्रवीणोऽपि प्रभावयवी कथं कलशस्यान्तः प्रदीपे प्रक्षिप्यमाणे तदन्तः प्रविशेदिति समः पर्यनुयोगः । अथान्य एवाय- १० मपवरकोदरपूरणात्कलशोदरपूरकः प्रभावयत्री क्षणिकत्वात्प्रदीपकलिकायाः । तदिहापि तुल्यम् । न हि यदेव विम्बं तदेव प्रतिबिम्ब नाम । किं तु तत्कार्यम् । अथ भवत्वन्यथा तस्य न तु तावतैव लघुवं घटते । बिम्बसमानम्य तस्य कदाचिदनुत्पत्तिप्रसंगात् । अन्यत्वस्य सदापि सत्त्वात् । असाधारणं तु निबन्धनं किं तत्रेति वक्तव्यम् । ननु १५ त्वयापि प्रदीपप्रभावयविनि तद्वाच्यम् । न ह्यपवरकपूरकः कुम्भपूरकः प्रभावयवी पृथगिति लाघवमम्यानघम् । आतिप्रसक्तेः । अथास्त्यन्न लघुत्वनिबन्धनमवकाशस्य तावत्त्वमिति चेत् । तबन्यत्राप्याश्रयस्य तावत्त्वमेवास्तु निबन्धनं, कनीनिकाद्याश्रयभेदेन हि तदपि लघुतमादिभेदमुपजायते । ननु भवतु कनीनिकादिषु तत्तथा । बिम्बाद्वि- २० स्तीर्णे त्वर्णवार्णःप्रभताधाश्रये कुतस्तन्महीयो न भवति । आश्रयस्य महीयस्त्वादिति चेत् । तर्हि तुङ्गगिरिशिखरादिविततावकाशावस्थितदीपप्रभावयव्यपि व्योममण्डलमखिलं किं न व्याप्नोति तावत्त्वादवकाशस्येति समः प्रश्नः । अथ विततावकाशसद्भावेऽपि तदवयवानां तुच्छ-. त्यान्न ब्योभव्यापकप्रभावयविप्रारम्भ इति चेत् । तर्हि प्रतिबिम्बार- २५
१ अर्गवार्थ:-समुद्रजलम् ।
"Aho Shrut Gyanam"