________________
परि. ५. ८ ]
स्याद्वादरत्नाकरसहितः
सिद्धस्तथा वृद्धव्यवहारात् । न च सेनावनादिशब्दात्प्रत्यासत्तिविशेषप्रतीतिप्रवृत्तिप्राप्तयोऽनुभूयन्ते येन स तस्यार्थः स्यात् । प्रत्यासत्तिविशिष्टा हस्त्यादयो धवादयश्च सेनावनादिशब्दानामर्थ इति चेत् । सिद्धस्तर्हि एकपदवाच्योऽनेकार्थस्तेन कथमेकपदवाच्यत्वं न व्यभि चरेत् । न च प्रत्यासत्तिरप्येका हस्त्यादिषु काचिदस्ति । संयुक्त- ५ संयोगानामनेकेषां तत्र भवद्भिरभ्युपगमात् । न च तदल्पीयस्त्वमेकमस्तीति वाच्यम् । तद्धि संख्याविशेषरूपं संयुक्तसंयोगेषु कथं युज्यते । निर्गुणत्वाद्गुणानाम् । गौरिति पदेनैकेन पश्चादेरनेकस्य वाच्यस्य दर्शनादपि व्यभिचारी हेतुः । कश्चिदाह-'न गौरित्येकमेव पदं पश्वादेरनेकस्यार्थस्य वाचकं तस्य प्रतिवाच्यं भेदात् । अन्य एव हि १० गौरिति शब्दः पशोर्वाचोऽन्यश्च दिगादेः । अर्थभेदाच्छन्दभेदव्यवस्थितेः । अन्यथा सकलपदार्थस्यैकपदवाच्यत्वप्रसंगात् ' इति तस्याप्यनिष्टानुषंग: स्यात् । द्रव्यमिति पदस्याप्यनेकत्वप्रसंगात् । पृथिव्याद्यनेकार्थवाचकत्वात् । अन्यदेव हि पृथिव्यां द्रव्यमिति पदं प्रवर्तते, अन्यदेव च जलादिषु । इत्येकपदवाच्यत्वं द्रव्यपदार्थस्या- १५ सिद्धं स्यात् । ननु द्रव्यत्वाभिसंबन्ध एको द्रव्यपदस्यार्थो नानेकपृथिव्यादिः । तस्य पृथिव्यादिशब्दवाच्यत्वात् । तत एकमेव द्रव्यपदं नाकमिति चेत् । तत्किमिदानीं द्रव्यत्वाभिसंबन्धो द्रव्यपदार्थः स्यात् । न चैतद्युक्तम् । तस्य द्रव्यत्वापलक्षितसमवायपदार्थत्वात् । एतेन गुणत्व कर्मत्वाभिसंबन्धो गुणकर्मपदयोरर्थ इत्येदप्यपाकृतम् । गुणत्वकर्म - २० त्वाभिसंबन्धस्य गुणत्वकर्मत्योपलक्षितसमवायपदार्थत्वात् । न चैवं सामान्यविशेषौ पदार्थों सिध्यतः । सामान्ययोर्विशेषेषु च सामान्याभिसंबन्धस्यासंभवादित्युक्तं प्राक् । ततो न द्रव्यगुणकर्मसामान्यविशेषसमवायाः षडेव पदार्था इति पक्षः क्षेमकरः । हेतोरपि न्यूनाधिकत्व
८
१ स्वर्गेषु पशुवाग्वज्रदिडूनेत्रघृणिरश्मयः' इति कोशात् गोशब्दः पशुवाचकस्तथा दिशः स्वर्गादिश्च वाचकः ।
"Aho Shrut Gyanam"
८४३