________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ५ सू.८
प्रतिपादकप्रमाणाभावे सतीति विशेषणमसिद्धम् । यतो न न्यूनत्वग्राहकप्रमाणाभावः सिद्धः । सामान्यविशेषमात्रग्राहकस्यैव प्रमाणस्य प्रागुक्तस्य तद्राहिणः सद्भावात् । तत्र यदेतत्परापरभेदं सामान्यं यच्च नवप्रकारं द्रव्यमुच्यते तत्तिर्यगूर्ध्वताभिख्यसामान्यप्रकारद्वयस्यैवान्त५ नम् । गुणादिकं तु समग्रं गुणपर्याययोर्विशेषयोरन्यतरदेवेति नातोऽन्यद्भवितुमर्हति । न चान्यलक्षणलक्षितौ सामान्यविशेषौ संगच्छेते । यतो द्रव्यादीनां ततो भिन्नलक्षणलक्षितत्वेन तत्र नान्तर्भूतौ भवेताम् | सामान्यविशेषयोरनन्तरमेव निराकरिष्यमाणत्वात् इत्यसिद्धौ न्यूनत्वग्राहकप्रमाणाभावः । एवमधिकत्वग्राहकप्रमाणाभावोऽपि षट्पदार्था१० धिकाभावप्रतिपादकस्य प्रत्यक्षादिप्रमाणस्य सद्भावात् । नाय पदार्थ इति चेत्, कुत एतत् । किमयं पदस्यार्थो न भवति । यद्वास्य तत्त्वज्ञानं न निःश्रेयसहेतुः । अथ वा नायं विधिस्वरूपः किं वा भावपरतन्त्रः । उत कणभुजा न भणित इति । नाद्यः पक्षः | भावपदार्थत्वेनास्य व्यवस्थितत्वात् । यथा १५ द्रव्यादिपदानां द्रव्यादयः । नापि द्वितीयः । यतोऽपदार्जितैनसा प्रध्वंसाभावस्तेषामेव निर्वर्तकस्य प्रकृष्टपुण्यस्य प्रागभावः पृथिव्यादिभ्यश्चात्मनः स्वरूपपरिहारः परिज्ञातो भवति । तदा प्रेक्षाकारी निःश्रेयसाय यतत इति सुतरामेतत्तत्त्वज्ञानं निःश्रेयसोपयोगि । नापि
तृतीयः । यतो नेयं परिभाषावयोः प्रतिपन्नास्ति यद्विधे रूपेणैव पदा२० र्थेन भवितव्यमिति । नाप्येतदर्थे विप्रतिपन्नं परं प्रति प्रमाणमेव । अन्यथा प्रतिषेधरूप एव पदार्थ इत्यपि ब्रुवाणः कश्चिद्वावदूको दुः प्रतिषेधः स्यात् । नापि चतुर्थः । यतः किमिदं पारतन्त्र्यं नाम । किं भावाश्रितत्वं भावनिरूपणाधीन निरूपणत्वं वा । आद्यकल्पनायामाश्रितत्वं किं समवेतत्वं, संयोगिविशेषत्वं विशेषणीभूतत्वं वा । प्रथ२५ मपक्षद्वयेsसिद्धता | अभावस्य द्रव्याद्यन्यतरत्वाभावेन समवायसंयोगयोरसंभवात् । संभवेऽपि चाव्यभिचारित्वमनित्यद्रव्यगुणकर्मसामान्य
८४४
" Aho Shrut Gyanam"