________________
-૮૪૨
५
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५ सू. ८
I
सामान्यात्मको विशेषात्मकश्चेति । सोऽपि द्रव्यादविष्वग्भूतो विष्वग्भूतश्चेति यथाप्रतीति निश्चीयते सर्वदा बाधकाभावात् । वैशेषिकाणां तु तथाभ्युपगमो व्याहत एव । तन्त्रविरोधात् । न हि तत्तन्त्रे सन्मानमेव तत्त्वं सकलपदार्थानां तत्रैवान्तर्भावादिति नयोऽस्ति । स्यान्मतं, द्रव्यपदेन सकलद्रव्यव्याक्तिभेदप्रभेदानां संग्रहादेको द्रव्यपदार्थः । गुण इत्यादिपदेन चैकैकगुणादिभेदप्रभेदसंग्रहाद्गुणादिरप्येकैकः पदार्थो व्यवतिष्ठते । तथा च---
' विस्तरेणोपदिष्टानामर्थानां तत्त्वसिद्धये । समासेनाभिधानं यत्संग्रहं तं विदुर्बुधाः ॥
१०
इति पदार्थधर्मसंग्रहः प्रवक्ष्येत इत्यत्र पदार्थसंग्रहस्य धर्मसंग्रहस्य चैव वैशेषिकव्याख्यानादिति । तदप्यविचारितरम्यम् । परमार्थ - तस्तथैकैकस्य द्रव्यादिपदार्थस्य प्रतिष्ठानुपपत्तेस्तस्यैकपदविषयत्वेनैकत्वोपचारात् । न चोपचरित पदार्थसंख्याव्यवस्थायां पारमार्थिकी पदार्थसंख्या समवतिष्ठते । अतिप्रसंगात् । अथ नात्रैपदविषयत्वेनै१५ कत्वोपचारो वाच्यः | यतोऽयमत्रापि प्रायोऽस्माकं द्रव्यमित्येकः पदार्थः, एकपदवाच्यत्वात् । यद्यदेकपदवाच्यं तत्तदेकः पदार्थः । यथा संप्रतिपन्नः कश्चित् । तथा च द्रव्यम्, एकपदवाच्यम् । तस्मादेकः पदार्थः । एवं गुणादिष्वपि वाच्यम् । एतदपि न वाच्यम् । व्यभिचारात् । सेनावनादिपदे हस्त्यादिधवादिपदार्थस्यानेकस्य वाच्य२० स्य सद्भावात् । ननु सेनापदे वाच्य एक एवार्थः प्रत्यासत्तिविशेषः संयुक्तसंयोगाल्पीयस्त्व लक्षणो हस्त्यादीनामस्ति वनशब्दे च धवादीनामिति न व्यभिचार इति चेत् । न । सेनाशब्दादनेकत्र हस्त्याद्यर्थे प्रतीतिप्रवृत्तिप्राप्तिप्रसिद्धेर्बनशब्दाच्च धवखदिरपलाशादावने कत्रार्थे । यत्र हि शब्दात्प्रतीतिप्रवृत्तिप्राप्तयः समधिगम्यन्ते स शब्दस्यार्थः
१ प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः । पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः ॥ ' इति प्रशस्तपादभाष्ये मङ्गलश्लोकः ।
"Aho Shrut Gyanam"