________________
१०
परि. ५ सू. ८ ] स्याद्वादनाकरसहितः पृथिव्यादीनि द्रव्याणि तावन्नवसंख्यानि तथाप्येतेष्वेकं लक्षणमस्त्येवेति चेत् । तत्किमिदानी द्रव्यलक्षणमेव द्रव्यपदार्थोऽस्तु न पृथिव्यादीनि । न चैतद्युक्तम् । लक्ष्यभूतानां तेषामभावे लक्षणस्य द्रव्यत्वादेरसंभवात् । तस्य त्वद्रव्यपदार्थत्वे सत्यामप्येकतायां न द्रव्यपदार्थ एकः सिध्यति। न खल्वन्येन पायसभक्षणेऽन्यस्य क्षुदुपशमः । अथ लक्षणस्य लक्ष्येष्वभि- ५ संबन्धात्तदैक्ये लक्ष्यमप्येकं युक्तमेवेति चेत् । न नाम युक्तम् । यतस्तत्कथंचिदविष्वग्भावेन तत्राभिसंबध्येत समवायादिना वा । नाद्यः पक्षः । परमतप्रवेशात् । द्वितीये तु नोपचारमन्तरेण तस्यैक्य प्रयुज्यते । पुरुषस्येव यष्टित्वम् । यथा हि पुरुषे यष्टियोगिन्यपि नोपचारमन्तरेण यष्टित्वं तथा पृथिव्यादावपि स्वयमनेकस्मिन्सत्यप्येक- , लक्षणसंबन्धेनोपचारमन्तरेणैक्यं युज्यत इति । नन्वेवं भवतामपि प्रमाणादिष्वैक्यमुपचरितमेव स्यात् । प्रत्यक्षपरोक्षादिभेदेषु स्वपरव्यवसायित्वादिलक्षणगतैक्यस्योपचरितत्वात् । नैतद्वक्तव्यम् । स्वपरव्यवसायित्वादिलक्षणादेकस्मात्प्रत्यक्षपरोक्षादिप्रकाराणां कथंचिदव्यतिरेकात्कथंचिदैक्यस्य तात्त्विकस्य प्रसिद्धेः । न चैवं पृथिव्यादिष्वप्यै- १ क्यसंभवो द्रव्यलक्षणस्य तेभ्योऽत्यन्तं त्वया भेदाभ्युपगमात् । कथं चैवं सामान्यपदार्थो विशेषपदार्थश्चैकः सिध्येत् , परापरसामान्ययोविशेषाणां च सामान्यादिनैकेन लक्षणेनाभिसंबन्धायोगादिति समवाय एवैकः पदार्थः स्यात् । यदि पुनर्यथेहेदमिति प्रत्ययादिविशेषादेकः समवायस्तथा द्रव्यादिरयमिति प्रत्ययाविशेषाव्यादिरप्येकैक एव । पदार्थ इत्यभिधीयते । तदापि वैशेषिकतन्त्रव्याघातो दुःशकः परिहर्तुम् । स्याद्वादिमतस्यैवं प्रसिद्धेः । स्याद्वादिनां हि शुद्धसंग्रहनयात्सत्प्रत्ययाविशेषादेकं सन्मात्रं तत्त्वं शुद्धद्रव्यमिति मतम् । तथैवाशुद्धसंग्रहनयादेकं द्रव्यमेको गुणादिरिति । व्यवहारनयात्तु यत् सत् तद्रव्यं पर्यायो वेति भेदः । यहव्यं तज्जीवद्रव्यमजीवद्रव्यं. २१ च । यः पर्यायः सोऽपरिस्पन्दात्मकः परिस्पन्दात्मकश्चेति । सोऽपि
"Aho Shrut Gyanam"