________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सू.. प्रमाणविषयत्वात् । य एवं त एवम् । यथोभयाभिमता घटादयः षट् पदास्तिथा चामी तस्मात्तथा । एते च पदार्थाः सर्वथान्योन्यासंभविलक्षालक्षितत्वेनैकान्ततः परस्परं भिन्नाः । तथा हि-द्रव्यलक्षणं तावद्रुणादिषु न संभवति । तद्धि द्रव्याभिसंबन्धो न चासौ गुणादिषु विद्यते । तत्र द्रव्यामिति प्रतीत्यभावादिति । ' पृथिव्यप्तेजोवाय्याकाशकालदिगात्ममनांस्येव' एतलक्षणलक्षितानि । लक्षणं च सकलं केवलव्यतिरेक्यनुमानमामनन्ति मनीषिणः । साध्यं च तत्र समानासमानजातीयव्यवच्छेदः ! तथा हि-द्रव्यम्य गुणकर्मणि समानजातीये
सत्तासामान्यस्य द्रव्य इच तयोरपि भावात् । सामान्यविशेषसमवाया१० स्त्वसमानजातीयाः । सत्तासामान्यस्य तेप्वभावात् । द्रव्यत्वादिसंब
न्धेन च तेभ्यः समानासमानजातीयेभ्यो व्यवच्छेदः साध्यते । अथ वा. द्रव्यस्य गुणकर्म सामान्यविशेषसमवायाः समानजातीयाः, वस्तुत्वात् । अभावस्तु असमानजातीयः । तद्विपरीतत्वात् । एवं सर्वत्रापि यथा
संभवं भावनीयम् । यदाहोद्योतकरः-'समानासमानजातीयव्यवच्छे१५ दो लक्षणार्थः' इति । तदिह यो नाम द्रव्यं स्वीकरोतिः
किंतु नागुणादिभ्यो भेदेनावधारयितुं शक्नोति तं प्रति तस्य स्वपरजातीयव्यावृत्तस्वरूपप्रतिपादनार्थमसाधारणो धर्मः कथ्यते द्रव्यत्वाभिसंबन्धाव्यमिति । द्रव्यत्वाभिसंबन्धश्च द्रव्यत्व
सामान्योपलक्षितः समवायः । न चैवरूपो द्रव्यत्वामिसंबन्धो गुणा२० दिषु विद्यत इति । प्रयोगश्च-द्रव्यम् , इतरेभ्यो भिद्यते, द्रव्यत्वादि
संबन्धवत्त्वात् । यत्तु नैवं न तदेवम् । यथा गुणादयः । न तत्तस्मादितरेभ्यो भिद्यते । व्यवहारो वात्र साध्यः । यो हि स्वरूपतो द्रव्यं जानन्नपि कुताश्चिव्यामोहाव्यमिति न व्यवहरति तं
प्रति विपर्ययपरिहाराव्यभिचारेण व्यवहारसाधनार्थमसाधारणो धर्मः २५ कथ्यते । द्रव्यत्वाभिसंबन्धाद्रव्यमिति प्रयुज्यते च । विवादास्पदी.
१. पा. भा. यू. ३ पं. २ ।
"Aho Shrut Gyanam"