________________
परि. ५ सु. ८ ] स्याद्वादरत्नाकरसहितः . भूतं वस्तु द्रव्यमिति व्यवहर्तव्यं तत एव यत्तु न द्रव्यमिति व्यवन्हियते न तत्तथा यथा गुणो न च न तथैतत्तस्मात्तथेति । क्रियावगुणवत्सवायिकारणत्वं वा द्रव्यस्य लक्षणम् । यदाह कणादःक्रियावद गुणवत्समवायिकारणत्वं वा द्रव्यस्य लक्षणम्' । अत्राप्यनुमाने पूर्ववत्कार्य एवं लक्षणोपेतं च । द्रव्यं, नवधैव, न्यूनाधि- ५ कत्वप्रतिपादकप्रमाणाभावे परस्परब्यावृत्तनवलक्षणयोगित्वात्, यदेवं तदेवम् । उभयाभिमतनवनिपादि (?) पदार्थवत् । तथा चेदं तस्मात्तथा । तथापि च पृथिव्यते जोवायुरूपस्य तावल्लक्षणं पृथिवीत्वाभिसंबन्धात्पृथिवीत्यादिपूर्ववंव्यतिरेक्यनुमानरूपमवसेयम् । द्विविधं चैतत्पृथिव्यादि. नित्यानित्यभेदात् । तत्र परमाणुरूपं १० नित्यं, सदकारणवत्त्वात् । ट्यणुकाद्यवयविरूपं त्वनित्यम् , उत्पत्तिमत्त्वात् । आकाशकालदिशां त्वेकैकत्वात्तल्लक्षणभूतापरसामान्याभावेऽपि पारिभाषिक्यस्तिस्रः संज्ञा एव लक्षणम् । यस्याः संज्ञाया विना निमित्तेन शृङ्गग्राहिकया संकेतः सा पारिभाषिकी । यथायं देवदत्त इति । यस्याः पुनर्निमित्तमादाय संकेतः सा नैमित्तिकी १० यथा गौरिति । व्यतिरेक्यनुमानं च भेदव्यवहारापेक्षयैवमत्र लक्षणीयम् । आकाशकालदिशः, इतरेभ्यो भिद्यन्ते । विवादास्पदीभूतं वा द्रव्यं, आकाशं कालो दिगिति व्यवहर्तव्यम्, अनादिकालप्रवाहायाताकाशादिशब्दवाच्यत्वान्न यदेवं न तदेवम् । यथा रूपादि। न च न तथेदं तस्मात्तथेति । आत्ममनसोरप्यात्मत्वमनस्त्वाभिसं. २०० बन्धो लक्षणम् । अत्रोत्तरत्र च व्यतिरेक्यनुमानं पूर्ववद्विरचनयिम् । एतानि चाकाशादीन्येकान्तेन नित्यानि निरंशानि मनोवानि व्यापकानि । मनस्तु अगुपरिमाणम् । एवं गुणत्वाभिसंबन्धेन
१ 'क्रियागुणवत्समवायिकारणामिति द्रव्यलक्षणम् ।' ११११५ इति कणादसूवधुनातनपुस्तकेधूपलभ्यते । २ घटादि इति युक्तं भाति ।
"Aho Shrut Gyanam"