________________
परि. ५ सू. ८]
स्याहादरत्नाकरसाहेत:
८३७
इति । स च भेदाविनाभतत्वान्नय एव विषादभिन्नः स एव मोदकादिभ्योऽपि । सर्वथा तदेकत्वे समानत्वायोगात् । नन्वेवं समानपरिणामस्यापि प्रतिविशेषमन्यत्वात्तद्भावानुपपत्तिरिति तदसत्यम् । सत्यप्यन्यत्वे समानासमानपरिणामयोभिन्नस्वभावत्वात् । तथा हि- समानबुद्धिध्वनिनिबन्धनस्वभावः समानपरि- ५ णामो विशिष्टबुद्धयाभिधानजननम्वभावस्त्वितर इति यथोक्तसंवेदनाभिधानसंवेद्याभिधेया एव च विषादय इति प्रतीतम् । अन्यथा यथोक्तसंवेदनाद्यभावप्रसक्तिः । अतो यद्यपि द्वयमुभयरूपं तथापि विषार्थी विष एव प्रवर्तते । नद्विशेषपरिणामस्यैव तत्समानपरिणामविनाभूतत्वान्न तु मोदके तत्समानपरिणामाविनाभावाभावात्तद्विशेष- १० स्य ! अतः प्रयासमात्रफला प्रवृत्तिनियमोच्छेदनोदनेति । एवं--
'सर्वस्योभयरूपत्वे तद्विशेषनिराकृतः ।।
प्रेरितो दधि खादेति किमष्ट्रं नाभिधावति ॥' इति केनचित्कुशाग्रीयमतिना यदभिहितं तदपि प्रतिहतम् । . इत्थं च--- तीर्थ्याभिप्रेततत्त्वं घनरजनितमस्तोमरूपं समन्ता
नीत्वा प्रध्वंसधाम स्फुरदमलमिति स्फाररश्मिप्रतानैः । सर्वानेकान्तभास्वानुदयमनुसतस्तीवजाड्यापहारी
कुर्वाणः कोविदानां हृदयसरसिजोज्जम्भणं नित्यमस्तु॥६१०॥ अत्राहुबैशेषिका:--
हं हो अनेकान्तरहस्यवेदिन, वैशेषिकोक्तषट्पदार्थोपपादनखण्डने। असारमुद्गारममुं विमुञ्च ।
एषैव यस्मात षट्पदार्थी
प्रपद्यते गोचरतां प्रमायाः ॥ ६११ ॥ तथा हि-अत्र द्रव्यगुणकर्म सामान्यविशेषसमवायाख्याः षडेव २५ पदार्थाः, न्यूनाधिकत्वप्रतिपादकप्रमाणाभावे सति षट्पदार्थव्यवस्थापक
"Aho Shrut Gyanam"