________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ स्. । अस्त्वेवमपि न कश्चिद्दोष इति चेत् । न देवदत्तादिषु संसारिषु सत्त्वादिभावेन मुक्तस्त्रप्रसंगात् । देवदत्तादिप्वन्य एव सत्त्वादिरिति चेत् । कस्तयोरन्यत्वे हेतुरिति वाच्यम् । मुक्तत्वामुक्तत्वे एवेति चेत् । तर्हि मुक्तत्वामुक्तत्वधर्मयोः सत्त्वभेदहेतुत्वेन सत्त्वाद्भिन्नत्वं सिद्धम् । सर्वथैकत्वे तु मुक्तत्वामुक्तत्वयोः सत्त्वमात्रत्वाविशेषाद्भेदाभावस्तथा च सत्यभिहित एव दोष इति सूक्ष्मधिया भावनीयमेतत् । एतेन 'संसार्यपि न सर्वथा संसारी' इत्याद्यपि प्रागुक्तं प्रत्युक्तम् । उक्तन्यायस्य तत्त्वतस्तुल्ययोगक्षेमत्वात् । तथा हि- अङ्गारमर्दकादेः संसारिणः स्वस्वरूपेणैव संसारित्वं न संसायंन्तररूपेण । अन्यथा तदभावप्रसंग इति । यच्च कीर्तितम् 'अनेकान्तवादिनो मानमपि न मानमेव ' इत्यादि । तत्र सिद्धसाधनम् । विजातीयादिमानान्तरत्वेन विवक्षितमानस्यामानत्वात् । अन्यथा तदभावप्रसंगादितरेतररूपतापत्तेः । तथा हि- प्रत्यक्षं प्रत्यक्षमानत्वेन मानम्, अनुमानादिमानत्वेन पुनरमानम् ।
एवमनुमानाद्यपि, अन्यथा तस्य प्रतिनियतत्वाभावः । एवं तदाभासोऽपि १५ कथंचिदेव तदाभासस्तस्याप्यनेकान्तात्मकत्वात् । विसंवादेन हि
तदाभासत्वस्य व्याप्तिस्तत्र चास्याव्यभिचारेण मानलक्षणयोगः । विसंवादोऽपि हि ज्ञेयः स च तदाभासात्प्रतीयत एवेति कथं तदाभासस्यापि कथंचिन्न प्रमाणता । न च प्रमेयमिवापरिच्छित्त्यात्मकमेव तदाभासं तथा प्रतीत्यभावात् । एवं हेत्वाभासेऽप्यसिद्धादौ साध्यागमकत्वप्रतिबद्धतया तत्र हेतुत्वेऽन्यत्राहेतुत्वमित्यनेकान्तात्मकता तस्यापि सुप्रतीतैव । एवं च 'मुक्तो न मुक्त एव हि ' इत्यादि कारिकायुग्ममपास्तम् । यदपि 'अनेकान्तात्मकत्वे वस्तुनः सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसंगः ' इत्यादि प्रत्यपादि तदपि स्याद्वाददंपर्यापर्यालोचकत्वसूच.
कमेव । न हि विषमोदकादिविशेषानान्तरं सर्वथैकस्वभावमेकं निरव२५ यवं सामान्यमित्यभिदधति स्याद्वादिनः । किं तर्हि समानपरिणाम
१ 'अनारमर्दक ' इति देवदत्तादिवत् संज्ञाशब्दः ।
"Aho Shrut Gyanam"