________________
परि. ५ सू. ८]
स्याद्वादरत्नाकरसहितः
किं त भयमुभयरूपम् । ततश्च विषार्थी विषे प्रवर्तेत मोदके च । एवं मोदकार्यपि मोदके विषे च । लोकश्च विषार्थी विष एव प्रवर्तते न मोदके। मोदकार्थ्यपि मोदक एव न विष इति । तदुक्तम्-----
'प्रवृत्तिनियमो न स्याद्विषादिषु तदर्थिनः ।
मोदकाद्यपृथग्भूतसामान्याभेदवृत्तिषु ॥' इति तदयुक्तम् । यतो यत्तावत् ' उत्तरपदार्थे निश्चिते' इत्यादि तदवितथमेव । नयप्रतीत्या निश्चित एवैकान्ते नञः प्रयोगाभ्युपगमात् । न चैवं सर्वम्यानेकान्तात्मकत्वमित्यभ्युपगमविरोधः । प्रमाणविषयापेक्षया सर्वस्य तदात्मकत्वाभ्युपगमात् । नयगोचरापेक्षया त्वेकान्तात्मकत्वम्यापि स्वीकारात् । _ 'अनेकान्तोऽप्यनेकान्तः प्रमाणनयसाधनः ॥'
इत्यभिधानात् । यदपि निगदितमनेकान्तवादस्वीकारे ' मुक्तोऽपि न मुक्त एव' इत्यादि तदपि न चतुरस्रम् । द्विप्रकारो ह्यत्रानेकान्तोऽमानेकान्तः क्रमानेकान्तश्च । तत्र ज्ञानसुखाद्यनेकाक्रमिधर्मापेक्षयाऽक्रमानेकान्तो युगपदप्येकत्रात्मनि तथाविधानेकधर्माणां १५ संभवात् । मुक्तेतराद्यनेकक्रमिधर्मापेक्षया तु क्रमानेकान्तः क्रमेणैव तादृशधर्माणामुपपत्तेः। तथा च य एवात्मा पूर्वममुक्तः स एवोत्तरकालं मुक्त इति न किंचिद्विरुध्यते । एकरूपत्वे पुनरात्मनो बन्धमोक्षाभावः स्यात् । बद्धस्य हि मुक्तत्वम् । न च सर्वथैकरूपस्यावस्थाद्वययोगे युक्तः । विरोधात् । यद्वा स्वमुक्तत्वेनैव मुक्तत्वान्मुक्तान्तर• २० मुक्तत्वे तदयोगान्मुक्तत्वामुक्तत्वयोरेकत्राविरोधः । स्वपरभावाभावोभयाधीनात्मकत्वात्सर्ववस्तूनाम् । अथवा सत्त्वचैतन्यसर्वज्ञत्वासंख्यातप्रदेशत्वादिभ्यो मुक्तामुक्तसाधारणत्वादमुक्तपर्यायेभ्यः कथंचिदव्यतिरिक्तत्वात्सकलकर्मक्षयाभिव्यक्तित्वपर्यायस्थ स्यान्मुक्तः स्यादमुक्त इति न कश्चिद्दोषः । न च य एव सत्त्वादिपर्यायः स एव मुक्तत्व- २५ पर्यायः । प्रतीतिभेदात् । एकान्तैकावे सत्त्वादेरेव मुक्तप्रसंगात् ।
"Aho Shrut Gyanam"