________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सू. ८ नेकधर्माणां सद्भावे तादात्म्याप्रसिद्धिरिति वैशेषिकादेः प्रत्यवस्थान नोपपत्तिस्थानम् । भिन्नप्रतिभासत्वस्य भेदसिद्धावसमर्थत्वेन प्रतिपादितत्वात्सामान्यविशेषानेकान्तसिद्धाविति । एवं सर्वं वस्तु, अने.
कान्तात्मकम् , तथाप्रतीयमानत्वात् । सत्त्वादर्थक्रियाकारित्वात् । ५ यत्युनरनेकान्तात्मकं न भवति तन्न अभिहितसाधनत्रयाधिकरणं
यथा खरविषाणम् । अभिहितसाधनत्रयाधिकरणं च सर्व वस्तु, तस्मादनेकान्तात्मकमिति । तथा वस्तुभूतानेकधर्माधिष्ठानं भावः सामान्यविशेषसामानाधिकरण्यविशेषणविशेष्यभावादिव्यवहाराणामन्यथानुपप
तेरिति । ननूत्तरपदार्थे निश्चिते सर्वत्र ननः प्रयोगो दृष्टोऽब्राह्मणादि१० यत् । एकान्तश्च यदि कचिनिश्चितः कथं सर्वस्यानेकान्तात्मकत्वं
भवेत् । तथानेकान्तवादस्वीकारे मुक्तोऽपि न मुक्त एव । अनेकान्तवादोच्छेदापत्तेः । अपि तु अमुक्तोऽपीति न मुक्तत्वमुपादेयप्रकर्षः स्यात्तदन्यसाधारणत्वात् । तथा संसार्यपि न सर्वथा संसारी । एकान्तवादापत्तेः । किं तीसंसार्यपीति न संसारित्वं हेयोत्कर्षः स्यान्मुक्तत्वसंवलितत्वात् । किं च, अनेकान्तवादिनो मानमपि न मानमेव । एवं हेत्वाभासोऽपि न तदाभास एव । परमतप्रवेशापत्तेः । यदाह'मुक्तो न मुक्त एव हि संसार्यपि सर्वथा न संसारी । मानमपि न मानमेव हि हेत्वाभासोऽप्यसावेव ॥ एवं सप्रतिपक्षे सर्वस्मिन्नेव वस्तुतत्त्वेऽस्मिन् । स्याद्वादिनः सुनीत्या न युज्यते सर्वमेवेह ॥' इति । अपि च । अनेकान्तात्मकत्वे वस्तुनः सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसंगः । तथा हि-विषमोदकादि व्यक्त्यभिन्नमनानास्व
भावमेकं सामान्यं वर्तते । ततश्च न विषं विषमेव मोदकायभिन्नसामा२५ न्याव्यतिरेकात् । नापि मोदको मोदक एव विषाभिन्नसामान्याभेदात् ।
२ अतः परं प्रवृत्ति० श्लोकान्लो पृ. ८३५ पं. ४ ग्रन्थोऽनेकान्तजयपताकायामुपलभ्यते । पृ. १५ पं. १९.
"Aho Shrut Gyanam"