________________
८३२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ स. ८ तात्त्विक इति चेत् । मैवम् । उभयोरपि समस्तप्रमाणेषु प्रथमानयोः सकलव्यवहृतिहेतुभूतयोः पक्षपातं विना तात्त्विकातात्त्विकत्वाभ्युपगमे किं पराजयो न दुर्निवारः स्यात् । अथ कथ्यते 'द्रव्यं सर्वत्राव्यभिचरितस्वभावत्वात्तात्त्विकम् । पर्यायास्तु व्यभिचारित्वादतात्त्विकाः' ५:इति तदप्यवद्यम् । यतो यदि नामद्रव्यमभेदरूपत्वात्सर्वत्रानुवर्तते पर्यायाः पुनर्भेदरूपत्वाच्यावर्तन्ते नैतावता पर्यायस्वरूपं तदतात्त्विकमतिप्रसक्तेर्विश्वस्य परस्वभावपरित्यागावस्थायित्वेनातात्त्विकत्वापत्तेः । अथ द्रव्यमेव पर्यायास्तदभिन्नत्वात्तत्स्वरूपवत् । न सान्त वा
द्रव्यादर्थान्तरभूताः पर्याया निःस्वभावत्वान्नभोऽम्बुरुहवदिति १० तदपि न सत् । पर्याया एव द्रव्यम् । तदभिन्नत्वात्तत्स्वरूपवत् ।
नास्ति वा पर्यायेभ्योऽर्थान्तरभूतं द्रव्यं निःस्वभावत्वान्नमोऽम्बुरुहूवत्, इत्यन्योऽप्यभिदधानः केन प्रतिषिध्येत । तस्मादुभयोरपि पक्षयोर्न कश्चिद्विशेषोपलम्भः समस्तीति यथैवानेकसहक्रमवर्ति पर्यायपरिकरितं द्रव्यमेकमनुभूयते । तथैव तदभ्युपगन्तव्यमिति न तन्निपेद्भुमसौ पटीयानिति सिद्धम् । एतेनात्मत्वव्यतिरिक्तधर्मधर्मिवादी वैशेषिकादिरपि प्रस्तुतानुमाने पक्षस्य प्रत्यक्षबाधां पुरस्कृत्य हेतोः कालात्ययापदिष्टत्वं वदन् अपहस्तितः । यदि धर्मधर्मिणोरत्यन्तं भेद एवं तदा धर्मधर्मिणोऽत्यन्तभिद्यमानमूर्तयस्तत्रैव कथं वर्तेरन् , भेदाविशेषेण सर्वत्रापि तेषां वृत्तिप्रसक्तेः । प्रतिनियत एव धर्मिणि धर्माणां समवायान्नापरत्र वृत्तिरिति चेत् । नन्वत्रापि वक्तव्यं धर्मधर्मिणोयग्रुपकार्योपकारकमावः स्यात्तदेयमपि स्यात् । अन्त्येव धर्मधर्मिणोरुपकार्योपकारकमाव इति चेत् । तायातमनेकधर्मोपकारकस्यैकस्य धर्मिणोऽनेकस्वभावत्वम् । तदन्तरेणानेकोपकारकत्वासंभवात् ।
न खलु येन स्वभावेनैकस्य धर्मस्योपकारस्तेनैवान्यस्य धर्मान्तरोपकार२५ कत्वस्वभावस्य पूर्वस्वभावोपमर्दद्वारेणोत्पत्तेरितरथैकमेवोपकुर्वाणोऽसौ
तिष्ठेत्तदेकस्वभावत्वात् । नन्वन्तरभूताभिः शक्तिभिरनेकस्याय
"Aho Shrut Gyanam"