________________
८३२
परि. ५ सू. ८ ] स्याद्वादरत्नाकरसहितः यदि चैकक्षणवर्तिनस्तस्य सामग्रीभेदेन भेदमननुभवत एव भिन्नदेशानेककार्यकारित्वमिष्यते तर्हि नित्यस्यापि सामग्रीभेदेन भेदमननुभवत एव भिन्नकालानेककार्यकारित्वमिप्यतामविशेषात् । तथा च दत्तः स्वयमेव हस्तः स्थैर्यपक्षप्रसिद्धये । क्षणविनश्वररूपादिस्वलक्षणानां प्रतिभासभेदेन वैलक्षण्यप्रतिज्ञा चेत्थं निनिमित्ता भवेत् । कौट-. ५ स्थ्यालिङ्गितस्यापि द्रव्यस्यान्यान्यसामग्रीसंदोहान्तर्भूततया नवपुराणादिविपर्ययरूपरसगन्धम्पर्शावभासलक्षणानेककार्यकरणाविरोधप्रसंगात् । अन्यञ्च संवेदनमर्थे स्वस्वरूपापेक्षया बहिर्मुखान्तर्मुखसविकल्पाविकल्पभ्रान्ताभ्रान्तादिप्रतिभासमेकं स्वीकुर्वाणोऽपि शाक्यस्तात्त्विकानेकधर्मात्मकत्वं वस्तुनस्तिरम्करोतीति कथं स्वस्थः । अपि १० च युगपत्प्रथमाननीलपीतादिवस्तुव्यवस्थित्यन्यथानुपपत्त्या नानादेशसमाश्रितानेकवस्तुसमुपनीताकारोपरक्तमेकमाकारभेदेऽपि संवेदनमातिष्ठमानः, कथं भिन्नसमयभाविसुखदुःखाद्यनेकपरिणतिवशात्त - दमैकान्ति कं ताथागतः कथयेत् । न्यायस्य समानत्वात् । अथ युगपद्भावित्वात्संवेदनान्तर्भूताकाराणामेकत्वं न पुनः सुखादीनां क्रममा- १५ वित्वादित्यभिधीयते तन्न तथ्यम् । युगपद्भाविनां नानादेशव्यवस्थितानां वस्तूनामप्यभेदप्रसक्तेः । तदित्थं बहिरन्तश्चानेकान्तमन्तरेण सौगतस्य स्वमतव्यवस्थापि दुरुपपादेति तात्त्विकानेकधर्मात्मकत्वेनैव साध्येन प्रमेयत्वाख्यस्य हेतोयाप्तिप्रसिद्धेर्न संदिग्धविपक्षव्यावृत्तिकतया नैकान्तिकत्वं शङ्कितुमपि युक्तमिति । नापि प्रकृतिपुरुषात्यद्रव्य- २० मात्रजल्पिना कापिलेन प्रकृतानुमाने पक्षस्य प्रत्यक्षवाधितत्वं दोषः प्रकाशनीयः । तस्याप्यनेकान्ताभ्युपगमं विना स्वदर्शनव्यवस्थानस्यासंभवात् । तथा ह्यन्तर एकं चैतन्यतत्त्व द्रष्टुत्वभोक्तृत्वाद्यनेकपरिणामसमनुगतं बहिश्च स्तम्भादिकं वस्तु नवपुराणवृत्तचतुरस्रत्वाद्यनेकपरिणामसमनुगतमेव व्यवहारसमर्थने प्रवर्तते । ननु प्रकृति- २५ पुरुषस्वभावं द्रव्यमेवैकं तात्त्विकम् । परिणामस्तु पर्यायापराभिधानो न
"Aho Shrut Gyanam"