________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५ सू. ८
ताभ्यां व्यावृत्तिप्रतिपत्तिरपेक्षाकृतत्वाविशेषात्ततः पश्यन्नयं क्षणिकमेव पश्यतीति वचो विरुध्यते । ननु मध्यक्षणस्वभावत्वात्पूर्वापरक्षण व्यावृत्त्योध्यक्षणग्राहिज्ञानेनैव प्रतिपत्तिरिति चेत् । तर्हि कारणत्वधर्मस्यापि कारणस्वभावत्वात्तद्राहिणैव ज्ञानेन प्रतिपत्तिरिष्यतां विशेषाभावात् । ५ वक्तृत्वस्य चासर्वज्ञत्वादिना व्यात्यसंभवः सर्वज्ञसिद्धिप्रघट्टके प्रकटित इति नेह प्रकाश्यते । न चेन्धनादिप्रभवपावकस्य मण्यादिप्रभवपावकादभेदो येन नियतः कार्यकारणभावो न स्यात् । अन्यादृशाकारो .हीन्धनप्रभवः पावकोऽन्यादृशाकारथ्य मण्यादिप्रभवः, तद्विचारे च निपुणेन प्रतिपत्रा भवितव्यम् । यत्नतः परीक्षितं हि कार्यं कारणं १० नातिवर्तते । कथमन्यथा वीतरागेतरव्यवस्था । तच्चेष्टयो: सांकर्योपलम्भात् । कथं चैवंवादिनो मृतेतरव्यवस्था स्यात् । व्यापारव्याहारादिकार्यविशेषस्य हि कचिचैतन्यकार्यतयोपलम्मे सति । अस्यत्र जीवच्छरीरे चैतन्यं व्यापारादिकार्यविशेषोपलम्भात् । मृतशरीरे तु नास्ति तदनुपलम्भादिति कार्यविशेषस्योपलम्भानुपलम्भाभ्यां कारणविशेषस्य भावाभावप्रसिद्धेस्तद्यवस्था युज्येत । तन्न प्रमाणतः प्रतीयमानः संबन्धः स्वाभिप्रेतत्वयन्निन्हवनीयो येन परमाणूनां संबन्धाभावत: स्थलादिप्रतीते श्रन्तत्वात्तदात्मकत्वं वस्तुनो न स्यात् । तस्मादिति व्यवस्थितम् । विवादविषयापनं वस्तु, सूक्ष्मस्थूलाकारात्मकं वस्तुत्वान्यथानुपपत्तेः । न खल्वेकान्ततः सूक्ष्मं स्थूलं वा तद्वस्तुतामास्तिनुते । तथाविधस्य निर्वाघप्रतिभासनावलम्बनत्वेनाम्बराम्बुरुहस्ये वास्तुत्वाद्यथाप्य सर्वथा सूक्ष्माकारं स्थूलाकारं वा परपरिकल्पितं वस्तु न
१५
****
८३०
२०
****
9236
....
द्वा । आद्यपक्षे तस्येदं स्वभावद्वयमिति संबन्धानुपपत्तिः । सर्वथा भिन्नस्य च स्वभावद्वयस्य कार्यकर्तृत्वे किमायातं स्वभाविनो रूपक्ष२५ णस्य येनासावपि कार्यकारीति व्यपदेशभाजनं भवेत् । कथंचिदर्थान्तरभूतत्वपक्षे पुनः समायातमेकस्य रूपक्षणस्यानेकस्वभावाक्रान्तत्वम् ।
"Aho Shrut Gyanam"
3804 100
1000
4204
$44. ....
***
****
****