________________
परि. ५ सू.८]
स्याद्वादरत्नाकरसहितः
भावलक्षणः संबन्धस्तथाप्यस्य प्रतिपन्नस्याप्रतिपन्नस्य वा सत्त्वं सिध्येत् । न तावदप्रतिपन्नस्य । अतिप्रसंगात् । प्रतिपन्नस्य चेत् 'कुतोऽस्य प्रतिपतिः' इत्यादि, तत्त्वकार्यकारणभावप्रतीतिः प्रत्यक्षानुपलम्भसहायेनात्मना नियते व्यक्तिविशेषे तर्कसहायेन चानियते प्रसिद्धा । एकमेव च प्रत्यक्ष प्रत्यक्षानुपलम्भशब्दाभिधेयम् । तद्धि कार्यकारणभावा- ५ भिमतार्थविषयं प्रत्यक्षमुच्यते । तद्विविक्तान्यवस्तुविषय वस्तु अनुपलम्भशब्दाभिधेयम् । तथा हि- एतावद्भिः प्रकारैधूमोऽग्निजन्यो न स्यात् । यद्यग्निसंनिधानात्प्रागपि तत्र देशे स्यात्, तदन्यतो वा गच्छेत्, तदन्यहेतुको वा भवेत् । एतच्च सर्वमनुपलम्भपुरःसरेण प्रत्यक्षेण प्रत्याख्यातम् । एतेन ' प्रागनुपलब्धस्य रासभस्य कुम्भकारसंनिधानान- १० न्तरमुपलभ्यमानस्य तत्कार्यता स्यात् ' इति प्रतिव्यूढम् । यदि हि तस्य तत्र प्रागसत्त्वमन्यदेशादनागमनमन्याहेतुकत्वं च निश्चेतुं शक्येत स्यादेव कुम्भकारकार्यता, तत्तु निश्चेतुमशक्यम् । न च भिन्नार्थग्राहि प्रत्यक्षद्वयं द्वितीयाग्रहणे तदपेक्षं कारणत्वं कार्यत्वं वा ग्रहीतुमसमर्थमित्यभिधातव्यम् । क्षयोपशमविशेषवतां धूममात्रोपलम्भेऽप्यभ्यासवशा- १५ द्वहिजन्यत्वावगमप्रतीतेः । अन्यथा बाप्पादिवैलक्षण्येनास्यानवधार. णात्, ततोऽम्यनुमानाभावे सकलव्यवहारोच्छेदप्रसंगः । ततः कथंचित्कारणाभिमतपदार्थग्रहणपरिणामापरित्यागवतात्मना कार्यस्वरूपप्रतीतिरभ्युपगन्तव्या । नीलाद्याकारव्याप्येकज्ञानेन तत्स्वरूपप्रतीतिवत् । न च कार्यस्यानुत्पन्नस्यैव कार्यत्वं धर्मोऽसत्त्वात् । नाप्यु- २० त्पन्नस्यात्यन्तभिन्न कार्यत्वं धर्मः । तदन्यतद्धर्मवत् । तत एव कारणस्यापि कारणत्वं धर्मो नैकान्ततो भिन्नम् । तच्च तस्मादभिन्नत्वातद्राहिप्रत्यक्षेणैव प्रतीयते तद्यक्तिस्वरूपवत् । दृश्यते हि पिपासा. द्याक्रान्तचेतसामितरार्थव्यवच्छेदेनाबालं तदपनोदसमर्थे जलादौ तत्प्र. त्यक्षात्प्रवृत्तिः । ननु कार्याप्रतिपत्तौ कथं कारणम्य कारणताप्रतिपत्ति. २५ स्तदपेक्षत्वात्तस्या इति चेत् । कथमेवं पूर्वापरक्षणप्रतिपत्तौ मध्यक्षणस्य
५३
"Aho Shrut Gyanam"