________________
परि. ५ सू. ८ ]
स्याहादरत्नाकरसहितः
८२७
तदेवं न तात्त्विकोऽर्था नामकार्यकारणभावो व्यवतिष्ठते । कार्यकारणभाववत् । स्वस्वभावव्यवस्थितार्थान्विहाय नान्यः कश्चिदकार्यकारणभावोऽस्ति । तथा व्यवहारम्नु कल्पनामात्रनिमित्त एव कार्यकारणन्यवहारवदिति चेत् । तर्हि वास्तव एवं कार्यकारणभावोऽकार्यकारणभाववत् । केवलं तयवहारो विकल्पशब्दलक्षणो विकल्पनिर्मित इति ५ किमनिष्टम् । वस्तुरूपयोरपि कार्यकारणभाव इतरथाऽभावो वस्तुधिति तु न युक्तम् । व्याघातात् । कचिन्नीले तरत्वाभाववत् । ततो यदि कुतश्चित्प्रमाणादकार्यकारणभावः परमार्थतः केषांचिदर्थानां सिध्येत्, तत एव कार्यकारणभावोऽपि । प्रतीतेरविशेषात् । यथैव हि गवाश्चादीनामकार्यकारणभावः परस्परमतद्भावमावित्वप्रतीतव्य वतिष्ठते तथा- १० निधूमादीनां कार्यकारणभावोऽपि । तद्भावभावित्वप्र तीतेर्बाधकाभावात् । नन्वकस्मादग्निं धूम वा केवलं पश्यतः कारणत्वं कार्यत्वं वा किं न प्रतिभातीति चेत् । किं पुनरकारणत्वमकार्यत्वं वा प्रतिभाति । सातिशयसंविदां प्रतिभात्येवेति चेत् । कारणत्वं कार्यत्वं वा तत्र तेषां न प्रतिभातीति कोशपानं विधेयम् । अस्मदादीनां तु तदप्रतिभासनं १५ तथा निश्चयानुत्पत्तेः क्षणक्षयादिवत् । तचोभयत्र समानम् । यथैव हि तद्भावमावित्वानश्यवसाथिनां न कचित्कार्यकारणत्वनिश्चयोऽस्ति तथा स्वयमतद्भावभावित्वानध्यवसायिनामकार्यकारणत्वनिश्चयोऽपि । प्रतिनियतसामग्रीसापेक्षत्वाद्वस्तुधर्मिनिश्चयम्य ! न हि सर्वत्र समानसामग्रीप्रभवो निर्णयस्तथान्तरङ्गबहिरङ्गसामग्रीवचित्र्यदर्शनात् । धूमा- २, दिज्ञानजननसामग्रीमात्रात्तत्कार्यत्वादिनिश्चयानुत्पत्तेर्न कार्यत्वादि धूमादेः स्वरूपमिति चेत् । तर्हि क्षणिकत्वादिरपि तत्स्वरूपं माभूतत एव । क्षणिकल्याभावे वस्तुत्वमेव न स्यादिति चेत् । कार्यकारणत्वाभावेऽपि कुतो वस्तुत्वं खरशृङ्गवत् ! सर्वथाप्यकार्यकारणम्य वस्तुत्वानुपपत्तेः कूटस्थवत् । विशेषासंभवात् । ननु च सदपि कार्यत्वं २५ कारणत्वं वा वस्तुस्वरूपं न संबन्धो द्विष्ठत्वाभावात् । कार्यत्वं कारणे
"Aho Shrut Gyanam"