________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ५.८
कारणत्वाभ्यां प्रतिषेध्ययोर्भावयोर्वर्तत । न चाद्विष्ठोऽसौ संबन्धाभावत्वविरोधात् । पूर्वत्र भावे वर्तितत्वात्परत्र क्रमेण वर्तमानोऽपि यदि सोऽन्यनिस्पृह एवैकत्र तिष्ठन्कथमसंबन्धः । परस्य ह्यनुत्पन्नस्याभावेऽपि पूर्वप्रवर्तमानः । पूर्वस्य च नष्टत्वेनाभावेऽपि परत्र वर्तमानोऽसावेकवृत्तिरेव स्यात् । पूर्वत्र वर्तमानः परमपेक्षते परत्र च तिष्ठन्पूर्वमतोऽसंबन्धो द्विष्ठ एवान्यनिस्पृहत्वाभावादिति चेत् । कथमनुपकारकं तयोरन्यतरमपेक्षतइति प्रसंगात् । स्वोपकारमपेक्षत इति चेत् । न । असतस्तदुपकारत्वायोगात् । यदि पुनरेकेनाभिसंबन्धात्पूर्वपरयोरर्थयोः कार्यकारणभावस्तदा सव्येतरविषाणयोरसौ संभवति । १० एकेन द्वित्वादिनाभिसंबन्धात् । तथा च सिद्धसाध्यता । द्विष्ठो हि कश्चिदसंबन्धो नातोऽन्यलक्षणो येनाभिमतसिद्धिः । यदि पुनः पूर्वस्याभाव एव यो भावोऽभावे वाऽभावस्तदुपाधिरयोगोऽकार्यकारणभावस्तदा तावेव भावाभावावयोगोपाधी किं नाकार्यकारणभावः स्यात् । तयोंमेंदादिति चेत् । न । शब्दस्य नियोक्तृसमाश्रितत्वेन भेदेऽप्यभेद१५ वाचिनः प्रयोगाभ्युपगमात् । स्वयं हि लोकोऽयमे कमदृष्टस्य दर्शनेऽप्यपश्यंस्तददर्शनेऽपि च पश्यन् विनाप्याख्यातृभिरकार्यमवबुध्यते । एवं चादर्शनदर्शने मुक्त्वा न क्वचिदकार्यबुद्धिरस्ति । न च तयोरेकार्थादिश्रुतिर्विरुध्यते । लाघवार्थत्वात्तन्निवेशस्य । या पुनरतद्भवाभावादतत्कार्थगतिरूपवर्ण्यते सा संकेतविषयाख्या, यथाऽसा२० नादेरगोगतिर्नेतावता तत्त्वतोऽकार्यकारणभावो नाम । भावे सभाविनि भावो भाविनि चाभावितात्रा हेतुफलते प्रसिद्धे प्रत्यक्षानुपलम्भाभ्यामेव । तदेतावन्मात्रतत्त्वार्था एवाकार्यकारणगोचरा विकल्पा दर्शयन्त्यर्थान् । मिथ्यार्थान्स्वयमघटितानिय घटितानपीति समायातम् । भिन्ने हि भावे का नामाघटना तस्थाऽन्याऽवभासते । येनासौ तात्त्विकी २५ स्यात् । अभिने सुतरां न घटना । न च भिन्नावर्थौ केनचिदकार्यकारणभावेन योगादकार्यकारणभूतौ स्यातां संबन्धसिद्धिप्रसंगात्
८२६
५
"Aho Shrut Gyanam".