________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ५ सु. ८
6
द्रव्यमपि स्वरूपेण निष्पन्नं पटपरिणामरूपतया त्वनिप्पन्नं .... ( तथाझुल्यादिद्रव्यं स्वरूपेण निष्पन्नं ) संयोगिपरिणामात्मकत्वेन त्वनिष्पन्नमिति । यदपि न रूपश्लेषलक्षणोऽसौ ' इत्यादि प्रत्यपादि तदेतदेकान्तवदनः प्रेर्यम् । न पुनरनेकान्तवादिनाम् । *५ ते हि कथंचिदेकत्वापत्ति संबन्धिनो रूपश्लेषं संबन्धमाचक्षते । न च सा द्वित्वविरोधिनी । कथंचित्स्वभावनैरन्तर्ये वा ते संबन्धमभिदधते । तदपि नान्तरालाभावरूपमवास्तवम् । छिद्रमध्यविरहेण्वन्यतमस्यान्तरालस्याभावो हि स्वभावान्तरात्नको वस्तुभूत एव यदा रूपश्लेषः कयोश्चिदास्थीयते निर्बाधस्तथा प्रत्ययविषयस्तदा कथं कल्पनारोपितः १० स्यात् । केनचिदंशेन तादात्म्यमतादात्म्यं च संबन्धिनोर्विरुद्धमित्यपि न मन्तव्यम् । तथानुभवाचित्राकारसंवेदनवत् । एतेन प्राप्तिरूपं नैरन्तर्ये रूपश्लेष इत्यपि स्वीकृतम् । कथंचित्तादात्म्यानतिक्रमाद्यथैव हि कार्यकारणक्षणाभ्यां तन्मध्यक्षणस्यैकदेशेन संबन्धे सांशत्वमनवस्था वा । तदेकदेशस्याप्येकदेशान्तरेण संबन्धात् । कार्त्स्न्येन १५ संबन्धे पुनरेकक्षणमात्र संतानप्रसंग: । कार्यकारणभावाभावश्च सर्वथैकस्मिंस्तद्विरोधादित्येकदेश कार्यपक्षानुपेक्ष्य संबन्ध एवेति कथ्यते । तथा परमाणूनामपि युगपत्परस्पर मेकत्वपरिणामहेतुः संबन्धो नैकदेशेन सर्वात्मना वा येन सांशत्वानवस्थाप्रसंग एकपरमाणुमात्रपिण्डप्रसंगश्च स्यात् । किं तर्हि संबन्ध एवेति कथ्यते । सक्ततोयादिवत् । परमाणूनां सांशत्वमित्यत्र चांशशब्दः स्वभावार्थोऽवयवार्थो वा स्यात् । २० यदि स्वभावार्थो न कश्चिदोषः । परमाणूनां विभिन्नदिग्भागव्यवस्थिताने काणुभिः संबन्धान्ययानुपपत्त्या तावद्वा स्वभावभेदोपपत्तेः । अवयवार्थस्त्वत्रांशशब्दो न युक्तिमान् | अणूनामभेद्यत्वेनावयवासंभवात् । न चैवं तेषामविभागित्वं विरुध्यते । यतोऽविभागित्वं भेदयितुमशक्यत्वं न पुनरेकस्वभावत्वमिति । यच्चोक्तम् ' न स तात्त्विकः संबन्धोऽस्ति प्रकृतिभिन्नानां व्यवस्थिते:' इत्यादि । तदपि नावदातम् । स्वस्वभावव्य२५ बस्थितिरेव तेषां संबन्धसिद्धेः । स्वस्वभावो हि भावानां प्रतीयमानः १ अयं पाठोऽत्र त्रुटितमिव भाति ।
" Aho Shrut Gyanam"
૮૪