________________
प्रमाणनयतत्त्वालोका लङ्कारः
[ परि. ५.८
द्रव्योपपत्तौ यदात्मद्रव्यपरिणामो वासना प्रबोधस्तदात्मद्रव्यविवर्तः स्मरणमिति परमतसिद्धेः कथं परस्परं भिन्नस्वभावकालयोरनुभवस्मरणयोरेकमात्मद्रव्यं व्यापकमिति च न नोद्यम् । सकृन्नानाकारव्यापिना ज्ञानेनैकेन प्रतिविहितत्वात् । समसमयवर्तिनो रूपरसयोरेकगु५ जिव्याप्तयोरनुमानानुमेयव्यवहारयोग्ययोरेकद्रव्यप्रत्यासतिरनेनेोक्ता
८२२
तदभावे तयोस्तद्व्यवहारयोग्यतानुपपतेः । एकसामप्रधीनत्वा तदुप पत्तिरिति चेत् | केयमेका सामग्री नाम । एकं कारणमिति चेत् । तत्सहकारि, उपादानं वा । सहकारि चेत् । कुलाल कलशयोर्दण्डादिरेका सामग्री स्यात्समानक्षणयोस्तयोरुत्पत्तौ तस्य सहकारित्वात् । १० तथा तयोरनुमानानुमेयव्यवहारयोग्यता न व्यभिचारिणी स्वात् । तदेक सामग्र्यधीनत्वात् । एकसमुदायवर्तिसहकारिकारणमेका सामग्री न भिन्नसमुदायवर्ति, यतोऽयमतिप्रसंग इति चेत्, कः पुनरयमेकसमुदायः । साधारणार्थक्रिया नियता प्रविभागरहिता रूपादय इति चेत् । कथं प्रविभागरहितत्वमेकत्वपरिणामभावे तेषामुपपद्यतेऽतिप्रसं१५ गात् । सांवृतैकपरिणामोऽस्त्विति चेत् । न । तस्य प्रविभागभावहेतुत्वायोगात् । प्रविभागाभावोऽपि तेषां सांवृत इति चेत् । तर्हि तत्त्वतः प्रविभक्ता एव रूपादयः समुदाय इत्यापन्नम् । न चैवं केषांचित्समुदायेतरव्यवस्था । साधारणार्थक्रियानियतत्वेतराभ्यां सोपपन्नेति चायुतम् । सूर्याम्बुजयोरपि समुदायत्वप्रसंगात् । तयोरम्बुजप्रबोधाख्य२० साधारणार्थक्रियानियतत्वात् । ततो वास्तवमेव प्रविभागरहितत्वं सनुदायविशेषस्तेषामेकत्वाध्यवसायहेतुरङ्गीकर्तव्यः । स चैकत्वपरिणाम तात्त्विकमन्तरेण न घटत इति सोऽपि प्रतिपत्तव्य एव । सचैकं द्रव्यमिति सिद्धम् ' स्वगुणपर्यायाणां समुदायः स्कन्धः' इति वचनात् । तथा च सति रसरूपयोरे काग्र्यात्मकयोरेकद्रव्यप्रत्यासत्तिरेव लिङ्ग२५ लिङ्गिव्यवहारहेतुः कार्यकारणभावस्यापि नियतस्य तदभावेऽनुपपतेः संतानान्तरवत् । न हि क्वचिदेव द्रव्ये वर्तमानाः पूर्वे रसादिपर्यायाः
"Aho Shrut Gyanam"
-