________________
परि. ३ सू. ४९] : स्याहादरलाकरसहितः
यत्रेत्यभिधये। तुशब्दः साधर्म्यदृष्टान्ताद्वैधर्म्यदृष्टान्तस्य विशेषयोसकः। साध्याभावे वयादेः साध्यस्यासम्भवे साधनस्य धूमादेरवश्यमभावः प्रदर्श्यते स वैधHदृष्टान्त इत्युच्यते । अत्र पुनरवश्यग्रहणेन साध्याभावसाधनाभावयोप्प्यव्यापकभावः सूचितः । तथा हि । साधनस्य धूमादेरभावः साध्यस्य वह्नयादेरभावे भावे च भवतीति तदतन्निष्ठत्या- ५ व्यापकः । साध्यस्य तु वह्नयादेरभावः साधनस्य धूमादेरभाव एव भवतीति तदेकनिष्ठत्वाव्याप्यः । अन्वयव्याप्तिस्वरूपापेक्षया व्यतिरेकव्याप्तेर्विपरीतस्वरूपत्वात् । यदाहुरस्मद्गुरवः श्रीमुनिचन्द्रसूरयः--" साध्य व्यापकमित्याहुः साधनं व्याप्यमुच्यते ॥ प्रयोगेऽन्वयवत्येवं व्यतिरेके विपर्ययः ॥१॥" इति 1 उदाहरणं पुनरत्रापि स्वयमेव १० तार्किकैस्तर्कणीयम् । अनमिरत्राधूमस्यान्यथानुपपत्तेर्जलाशयवदिति ।। ४६ ॥ ___ उपनयं निरूपयन्नाहहेतोः साध्यधर्मिण्युपसंहरणमुपनय इति ॥४७॥ __ हेतोषूमादेः । साध्यधर्मिणि पर्वतप्रदेशादौ । उपसंहरणं धूमश्चात्रे- १५ त्यादिनोल्लेखेनोपढौकनम् । उपनयः उच्यते । उपनीयते साध्याविनाभावित्वेन विशिष्टो हेतुः साध्यधर्मिण्युपदृश्यते येन स उपनय इति व्युत्पत्तेः ॥४७॥
निगमनं लक्षयति--- साध्यधर्मस्य पुनर्निगमनमिति ॥४८॥
अत्र साध्यधर्मिण्युपसंहरणमित्यनुवर्तते ततः साध्यधर्मस्य धूमध्य- . जादेः साध्यधर्मिण्युपसंहरणम् । पुनर्निगमनं तस्मादमिरत्रेत्यादिनोलेखन निगम्यन्ते प्रतिज्ञाहेतूदाहरणोपनयाः साध्यलक्षणैकार्थनियततया सम्बध्यन्ते सन्निगमनमिति निरुक्तेः ॥ ४८ ॥
अथ पक्षवचनादीनां पूर्वाचार्यप्रवर्तितां संज्ञां कथयबाह-- २५
"Aho Shrut Gyanam"