________________
906
प्रमाणनयतत्त्वालोका लङ्कारः T परि. ३. सु. ४९
एते पक्षप्रयोगादयः पंचाऽप्यवयवसंज्ञया कीर्त्यन्त
इति ।। ४९ ।।
अपिशब्दः पक्षादिशुद्धिपञ्चकोपलक्षणपरः । ततो दशाप्येते वचनविशेषा अवयवसंज्ञया कीर्त्यते । परार्थानुमानवाक्यस्यावयविनो ५ भागरूपत्वादिति ।
एवं स्वरूपकलिताः प्रतिपाद्यमेत्य
1
१५
दृष्टान्तवाक्प्रभृतयोऽवयवा अपीह ||
वक्तव्यतामनुसरत्यनुमानकाले
सद्वादिनां निपतेः समये स्थितानाम् ||५१३ || ४९ ॥
१०
तदित्थं स्वार्थपरार्थभेदभिन्नमनुमानं सप्रपञ्चमभिधायेदानीं तदुत्पादकं निश्चितान्यथानुपपत्त्येकलक्षणलक्षितं हेतुं प्रकार प्रकाशनद्वारेण विनेयेजनमनीषोन्मीलनार्थ प्रपञ्चयन्नाह-
उक्तलक्षणो हेतुर्द्विप्रकारः, उपलब्ध्यनुपलब्धिर्भ्यां भिद्यमानत्वादिति ॥ ५० ॥
उपलब्धिश्चोपलम्भोऽनुपलब्धिधानुपलम्भ उपलब्ध्यनुपलब्धी ताभ्यां भिद्यमानत्वाद्विशिष्यमाणत्वाद्विप्रकारों हेतुरिति ॥ ५१ ॥ सम्प्रति ये मन्यन्ते उपलब्धिर्विधिसाधिकैवानुपलब्धिस्तु प्रतिषेधसाधिकैव " अत्र द्वौ वस्तुसाधनावेकः प्रतिषेधहेतुः " इति वचनात् । तेषामिदमवधारणं विध्वंसयन्नुपलब्धेरनुपलब्धेश्वाविशेषेण २० विधिप्रतिषेधसाधकत्वमाह-
उपलब्धिर्विधिप्रतिषेधयोः सिद्धिनिबन्धनमनुपलविधवेति ॥ ५१ ॥
१ विनेयाः शिष्याः ।
" Aho Shrut Gyanam"