________________
प्रमाणनयतत्वालोकालङ्कारः [परि. ३ सु. ४४ समानो धर्मो यस्यासौ सधर्मा सधर्मणो भावः सायं तस्मात्ततः । विसशो धर्मो यस्य स विधा विधर्मणो भावो वैधय ततः । च: समुच्चये ! साधर्म्यवैधाभ्यामन्वयव्यतिरेकरूपाभ्यां दृष्टान्तस्य द्वैवि
ध्यमिति भावः ॥४४॥ ५ तत्रार्थ प्रकारमाह-- यत्र साधनधर्मसत्तायामवश्यं साध्यधमसचा प्रका
श्यते स साधर्म्यदृष्टान्त इति ॥१५॥ .... यत्रेत्यभिधेये । साधनधर्मस्य धूमादेः । सत्तायामवश्यं साध्यधर्मस्य
वयादेः सत्ता । प्रकाश्यते वचनेन ख्याप्यते स साधर्म्यदृष्टान्तः । १० अवश्यग्रहणं चात्र साध्यसाधनयोाप्यव्यापकभावं सूचयति । व्यापकं
हि साध्यं वयादिकमुच्यते । तस्य साधने धूमादावनायत्तत्वात् । धूमाभावेऽप्यनारावस्थायां वहेः सद्भावोपलम्भात् । व्याप्यं पुनः साधन धूमादिकमभिधीयते । तस्य साध्ये धूमध्वजादावायत्तत्वात् । वहि
सद्भाव एव धूमस्य सद्भावदर्शनात् । तदुक्तम्----" व्यापकं तदतन्निष्ट १५ व्याप्यं. तमिष्ठमेव हि ॥” इति । अस्यार्थः---स च व्याप्यसद्भावोऽ
सश्च व्याप्याभावस्तदतौ तदतयोतिष्ठाऽवस्थानं सद्भावो यस्य तत्तदतन्निष्ठम् । ततश्च यत्तदतन्निष्ठं वह्वयादिकं साध्यभूतं वस्तु तद्व्यापकमिति लक्षणीयम् । तथा तस्मिन्व्यापकसद्भावे निष्ठाऽवस्थानं
यस्य तत्तन्निष्ठम् । एवकारोऽवधारणे । ततोऽयमर्थः-यत्तन्निष्ठमेव २० धूमादिकं साधनभूतं वस्तु तद्व्याप्यमिति मन्तव्यम् । अत्रोदाहरणं
स्वयमभ्यूह्यम् । तथाहि-~-अमिरत्र धूमस्य तथैवोपपत्तेर्महानसवदिति। ॥४५॥
अथ द्वितीयं प्रकारमाह-- यत्र तु साध्याभावे साधानस्यावश्यमभावः प्रदाते २५ . स वैधHदृष्टान्त इति ॥४६॥
"Aho Shrut Gyanam"