________________
परि. ३ सू गाधी माझादनांकरसहितः लदयसुन्दरम् । न हि पक्षादिविरहे प्रतिपाद्यविशेषः प्रत्याययितुं शक्यः । . पक्षादिवचनुसाध्यहेतुगोचराद्यर्थप्रतीतिविकलतया तस्य साकाङ्कत्वात् । तथा च बुभुत्सितार्थबोधाभावादप्रत्यायित एव तिष्ठेत् । ततस्तद्बोधनार्थं पक्षादयः प्रयोज्या इति । तेऽपि परार्थानुमानवाक्यावयवा भवन्ति । यच्चाभिहितं यदि च तेषामपि साध्यसिद्धौ · सामर्थ्य ५ स्यादित्यादि । तदपि परिफल्गु । भवत्पक्षेऽप्यस्य तुल्यत्वात् । तत्रापि धूमोऽत्र दृश्यते , इत्येतावन्मान्नेणैव साध्यसिद्धेर्यत्र धूमस्तत्र · वह्निर्यथा महानस इति व्याप्तिप्रतिपादनस्य नैरर्थक्यापत्तेः । अथैवमेवैतत् । अत्यन्ततीक्ष्णमतेस्तावतैव प्रतीतिसद्भावात् । तथा चोक्तम्- "विदुषां वाच्यो हेतुरेव हि केवलः” इति । तदपेक्षयापकृष्टप्रज्ञः पुनस्तावता १० तांवबोधयितुं शक्यत इति तं प्रति सार्थकं व्याप्त्युपदर्शनमिति चेत् । ६ तर्हि पक्षादीनपि परित्यज्य प्रतिपाद्यविशेषः प्रत्याययितुं न शक्यत इति. तेषामपिः सार्थकत्वं न दुर्घटमिति । तस्माद्धेतुवत्पक्षादयोऽपि परार्थानुमाने प्रतिपाद्यविशेष प्रति योज्याः । हेतोरपि कचित्प्रतिपाद्ये तद्न पेक्षितया निरपेक्षत्वासिद्धेरिति । तदेतन्निखिलं परामृश्याभिहितं मन्द- १५ मतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानीति । • एवं च सिद्धमिदम्
व्युत्पन्नमाश्रित्य परं परार्थं यथोक्तमाख्यात्यनुमानमत्र ॥ तदज्ञमाश्रित्य पुनर्नयज्ञास्तचित्ररूपं परिकीर्तयन्ति ।।५१२॥४२॥ तत्र दृष्टान्तं तावयाचष्टेप्रतिबन्धप्रतिपचेरास्पदं दृष्टान्त इति ॥४३॥
प्रतिबन्धो व्याप्तिस्तत्प्रतिपत्तेः स्मृतिरूपाया आस्पदं स्थानं महानसादि दृष्टान्त इति निरुक्तित्रितयात् ।। ४३॥ · अथास्य प्रकारकथनायाह-- ... स द्वेषा साधर्म्यतो वैधयंतश्चेति ॥४४॥ २५
"Aho Shrut Gyanam"