________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ पेरि. ३ सु..४२
न खलु प्रतिपत्ता पक्षं कृत्वा ततो हेतुं निभालयति । नापि दृष्टान्तादिकं विरचयति । तथा प्रतीतेरभावात् । अपि चान्वयव्यतिरेकाभ्यां साध्यसिद्धौ हेतोरेव सामर्थ्यमवधार्यते न पक्षादीनाम् । तद्व्यतिरेकेणापि साध्यसिद्धेः सम्भवात् । तथापि पक्षादीनां परार्थानु : ५ मानवाक्यावयवत्व परिकल्पनायामनवस्थाप्रसक्तिः । यदि च तेषामपि साध्यसिद्धौ सामर्थ्य स्याउदा पक्षोपन्यासमात्रादेव साध्यावगतेर्हेतुरानर्थक्यमश्नुवीत । उत्तरावयवाश्च । एवं हि तत्सामर्थ्यं सिद्धयेन्नान्यथा । तस्माद्य एव परनिरपेक्षं साध्यं बोधयति स एव हेतुः परं प्रतिपादयिलुमुचितोऽनपेक्षत्वान्न पक्षादय इति । अत्रोच्यते । यदुक्तं न च स्वार्थानुमानकाळे पक्षादिक्रमोऽयमनुभूयत इत्यादि । तत्र सर्वस्य प्रमातु - स्तथा क्रमानुभवाभावोऽभिधीयते कस्यचिद्वा । आद्यः पक्षोऽसिद्धः । कस्यचित्प्रमातुस्तेनापि क्रमेण साध्यप्रतीतेः सम्भवात् । द्वितीयपक्षस्त्वभ्युपगम्यत एव । नन्वेवं परार्थानुमान वाक्यप्रयोगेऽप्रतिपन्नसङ्केतः कश्चित्कञ्चित्पुनस्तद्विपरीतः । तत्राद्यं प्रतिपाद्यमाश्रित्य क्रमेणैव पराश्रनुमानमारभ्यते । अन्यथा रचनायां तस्य सम्मोहसम्भवात् । द्वितीय तु प्रति नास्त्येकान्तः । यथाकथञ्चित्खलु परस्य प्रतिपत्तिरुत्पादनीया । सा च क्रमेण व्युत्क्रमेण च भवतीति तं प्रति द्विघाऽप्यभिधानं साधीय एव । ननु यस्थाक्रमेण स्वार्थानुमाने प्रतीतिरुदपादि तेनाद्यं प्रतिपार्थ प्रतीत्य यदि क्रमेणैव परार्थानुमानमुपन्यस्यते तदा स्वनिश्चय30. वृत्परनिश्चयोत्पादनं विरुध्यते । तन्न । निश्चयापेक्षयैव वतिना तुल्यताभिधानात् । न पुनः सर्वथा साम्यमभिमतम् । अन्यथा स्वार्थानुमाने शब्दमप्रयुञ्जानः साध्यं जानीत इति तदप्रयोगेण परनिश्चयोत्पादनमपि स्यात् । न चैतत्सम्भवति । शब्दाप्रयोगे परप्रतिपादनानुपपत्तेः । तदर्थं शब्दप्रयोगस्वीकारे च येन येन विना परंप्रतिपादनासम्भवस्तव२५ दङ्गीकरणीयम् । न्यायस्य समानत्वात् । यदप्युक्तमन्वयव्यतिरेकाभ्यां साध्यसिद्धी हेतोरेव सामर्थ्यमवधार्यते न पक्षादीनामिति ।
"
2
६६६
" Aho Shrut Gyanam"
.