________________
परि. ३ सू. ४२] स्याद्वादरत्नाकरसहितः कर्तव्या ! अन्यथा पक्षादीनां स्वसाध्यसाधनात् । तत्र वक्ष्यमाणप्रतीतसाध्यधर्मविशेषणत्वादिपक्षदोषपरिहारादिः पक्षशुद्धिः । अभिधास्यमानासिद्धादिहेत्वाभासोद्धरणं हेतुशुद्धिः । प्रतिपादयिष्यमाणसाध्यविकलत्वादिदृष्टान्तदूषणपरिहरणं दृष्टान्तशुद्धिः । उपनयनिगमनयोस्तु शुद्धी प्रमादादन्यथा कृतयोस्तयोर्वक्ष्यमाणतत्स्वरूपेण व्यवस्थापके ५ वाक्ये विज्ञेये । प्रपञ्चतस्तु पक्षादिशुद्धिपञ्चकस्वरूपं परमावसेयम् । सर्वेषां चामीषां पक्षादिवचनानां परार्थानुमानवाक्यावयवत्वम् । प्रतिपाद्यप्रतीत्युपायत्वात् । तदिदं दशावयवं वाक्यमाहुस्तार्किकाः । इयमेव वचसोत्कृष्टा कथा कथ्यते । तथा ह्यवयवापेक्षया जघन्यमध्यमोत्कृष्टास्तिस्रः कथा भवन्ति । तद्यथा-- लिङ्गं केवलमेव यत्र कथयत्येषा जघन्या कथा
यादीन्यत्र निवेदयत्यवयवानेषा भवेन्मध्यमा ॥ • उत्कृष्टा दशभिर्भवेदवयवैः सा जल्पितैरित्यमी
जैनरेव विलोकिताः कृतधियां वादे त्रयः सत्पथाः ॥५११॥ तत्रेह-"पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात्" इत्यनेन सूत्रे- १५ णानन्तरं मध्यमायाः कथायाः साक्षाद्धणनाजघन्योत्कृष्टे अपि सामर्थ्यासचिते । प्रतिपाद्यविशेषमाश्रित्य तत्सद्भावस्यापि प्रमाणोपपन्नत्वात् । प्रयोगपरिपाट्या प्रतिपाद्यानुसारतो जिनपतिमतानुसारिभिरभिमतत्वात् । तदुक्तम्-" अन्यथानुपपत्त्येकलक्षणं लिङ्गमिष्यते ॥ प्रयोगपरिपाटी तु प्रतिपाद्यानुसारतः ॥ १॥” इति । ननु च स्वनिश्चयवत्पर- २० निश्चयोत्पादनं परार्थमनुमानमुच्यते । यथोक्तं भवद्वद्वैः-" स्वनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः ॥ परार्थमनुमाख्यातं वाक्यं तदुपचारतः ॥१॥” इति । न च स्वार्थानुमानकाले पक्षादिक्रमोऽयमनुभूयते । गृहीताविनाभावस्य हेतुदर्शनमात्रात्साध्यप्रतीतिसिद्धेः ।
१ परम्-अत्रे । २ प्र, न. प. ३ स. २३। ३ सिद्धसेनदिवाकरपादः न्या. लो. १०।
"Aho Shrut Gyanam"