________________
प्रमाणनयतत्वालोका लङ्कारः [ परि. ३ सू. ४१
'समर्थनं हेतोरसिद्धत्वादिदोषान्निराकृत्य स्वसाध्येनाविनाभावसाधनम् । परं केवलम् || ४१ ॥
इत्थं व्युत्पन्नमतीनाश्रित्य प्रपञ्चितं परार्थमनुमानम् । अथ मन्दमतीनाश्रित्य तत्प्रपञ्चयन्नाह -
मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानीति ॥ ४२ ॥
मन्दमतीनव्युत्पन्नप्रज्ञान् । अपिशब्दोऽनुक्तसमुच्चयार्थः । ततः पक्ष हेतू पक्षादिशुद्धयश्च पञ्च ग्राह्याः । ततश्च न केवलं दृष्टान्तोपनयनिगमनानि प्रयोक्तव्यानि किन्तु पक्षहेतू पक्षादिशुद्धयश्च प्रयोक्तव्या १० इत्यर्थः सिद्धो भवति ।
५६४
५
इदमिह रहस्यम् । नैकः प्रकारः परार्थानुमानस्य । किं तर्हि यथा
यथा परस्य सुखेन साध्यार्थप्रतिपत्तिरुपजायते सूत्ररहस्यप्रकटनम् । तथा तथाऽसौ वक्त्रा प्रतिपादनीयः । तत्र यदा प्रतिपाद्यः क्षयोपशमादेव निर्णीतपक्षो दृष्टान्तस्मार्यप्रतिबन्धग्राहकप्रमा१५ णस्मरण निपुणोऽपरावयवाभ्यहनसमर्थश्च भवति तदा तमाश्रित्य हेतुप्रतिपादनमेव क्रियते धूमोऽत्र दृश्यत इति । तं प्रति पक्षाद्याभिधानस्य वैयर्थ्यात् । यदा पुनः प्रतिपाद्यस्य नाद्यापि पक्षनिर्णयस्तदाऽकाण्ड एव हेतूपन्यासोऽदृष्टमुद्गरपातायमानः स्यादिति पक्षोऽपि तं प्रति प्रयुज्यते । अभिरत्र धूमान्यथानुपपत्तेरिति । तथा यः प्रतिबन्धत्राहि२० प्रमाणस्य न स्मरति तमाश्रित्य दृष्टान्तोऽप्युपदिश्यते । अग्निरत्र धूमाद्यत्र धूमस्तत्राग्निर्यथा महानस इति । स्मृतेऽपि प्रतिबन्धग्राहिणि प्रमाणे दाष्टन्तिके हेतु योजयितुमजानानस्योपनयः प्रदर्श्यते । यथा प्राक्तन एव प्रयोगे धूमश्चात्रेति । एवमपि साकाङ्क्षस्य निगमनमभिधीयते । तस्मादग्निस्त्रेति । अन्यथा निराकुलप्रस्तुतार्थासिद्धेरिति । तथा २५ प्रतिपाद्यविशेषस्य यत्र पक्षादौ स्वरूपविप्रतिपत्तिः । तद्बुद्धिः प्रमाणेन
" Aho Shrut Gyanam"